________________
२८२ ]
बृहवृत्ति-लवुन्याससंवलिते
[पा० २. सू० ६४-६६.]
वाराणसी रक्ष पाहुः, भोगानभिलाषुकः । अकमेरिति किम् ? दास्याः कामुकः ।। ६३ ।।
न्या० स०--अकमे० । वाराणसीति-वरणा च असिश्च वरणासी नद्यौ, ते विद्यते अस्याम् “अहरादिभ्योऽञ्" [ ६. २. ८७ ] पृषोदरादित्वा । ह्रस्वदीर्घव्यत्ययेऽअन्तत्वाद् ड्याम् ; यद्वा वराण इति वीरणस्याख्या, वराणास्तृणविशेषाः सन्न्यस्यां "तृणादेः सल्" 5 [ ६. २. ८१. ] "लिमिन्यनि" [ लिङ्गानुशासने ] इति स्त्रीत्वे वराणसाया अदूरभवा "निवासा-दूर०" [ ६. २. ६६. ] इत्यण ।। २. २. ६३ ।।
एष्यहणेनः ॥ २. २. ६४ ॥
एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न भवति । इन इति इन्-णिनोर्ग्रहणम् । ग्रामं गमी, औणादिक इन्, ग्राममागामी औणादिको10 णिन् ; शतं दायी, सहस्र दायी, कारी मेऽसि कटम्, हारी मेऽसि भारम् ; एष्वाधमये गिन् । एष्यदृरणेति किम् ? अवश्यंकारी कटस्य, साधुदायी वित्तस्य ।। ६४ ॥
न्या० स०--एष्यदृ० । शतं दायी शतं धारयन् ददाति “णिन् चावश्यक." [५. ४. ३६.] इति णिन् । करोषीति हरसीति [कारी, हारी] पूर्ववण्णिन् 15 ।। २. २. ६४ ।।
20
सप्तम्यधिकरणे ॥ २. २. ६५ ॥
गौरणानाम्न एक-द्वि-बहावधिकरणे कारके 'ङि-पोस्-सुप्' लक्षणा यथासंख्यं सप्तमी विभक्तिर्भवति । दिवि देवाः, पर्यङ्क प्रास्ते, तिलेषु तैलम्, गुरौ वसति, युद्धे संनद्यते, अमुल्यग्रे करिशतम् ।। ६५ ।।
न्या० स०-सप्तम्यधि० । अत्र सत्यर्थे वैषयिके वा स मी ।। २. २. ६५ ।। नवा सुजथै काले ॥ २. २. ६६ ॥
सुचोऽर्थो वारलक्षणो येषां प्रत्ययानां तदन्तैर्युक्तात् कालेऽधिकरणे वर्तमानाद् गौरणान्नाम्नः सप्तमी वा भवति । द्विरह नि भुक्त, पक्षे शेषे षष्ठी-द्विरह नो भुङ्क्त; मासे पञ्चकृत्वो भुङ्क्त, मासस्य पञ्चकृत्वो25