________________
२८० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० ६०-६१.]
तन्नुदन्ता-व्यय-क्वस्वाना-अतृ-शतुङि-णकच
खलर्थस्य ।। २. २. ६० ॥ तृन उदन्तस्य अव्ययस्य क्वसोरानस्य अतृशः शतुः उ: एकचः खलर्थस्य च कृतः संबन्धिनोः कर्मकोंः षष्ठी न भवति । तृन्-वदिता जनाऽपवादान्; उदन्त-कन्यामलंकरिष्ण :, रिपून जिष्ण :, शरान् क्षिप्ण :, 5 प्रोदनं बुभुक्षुः, देवान् वन्दारुः, धारुर्वत्सो मातरम्, श्रद्धालुस्तत्त्वम् ; अव्ययकटं कृत्वा, पयः पायं पायं व्रजति, प्रोदनं भोक्तं व्रजति; क्वसु-प्रोदनं पेचिवान्, तत्त्वं विद्वान् ; आनेति उत्सृष्टाऽनुबन्धनिर्देशात् कान-शाना-ऽऽनशां ग्रहणम्, कटं चक्राणः, वचनमनूचानः; शान-मलयं पवमानः, कतीह कवचमुद्वहमानाः, कतीह शत्रून् निघ्नानाः, कतीह वपुर्भूषयमारणाः; आनश्-10 प्रोदनं पचमानः, चैत्रेण पच्यमानः, कटं करिष्यमारणः, अतृश्-अधीयंस्तत्त्वार्थम्, धारयन्नाचाराङ्गम् ; शतृ-कटं कुर्वन्, कटं करिष्यन्; डि-परीषहान् सासहिः, कटं चक्रिः, दधिश्चित्तम्; णकच-एधानाहारको व्रजति, कटं. कारको व्रजति ; चिन्निर्देशात् एकस्य न भवति-वर्षशतस्य पूरकः, पुत्रपौत्रस्य दर्शकः; खलर्थः-ईषत्करः कटो भवता, सुज्ञानं तत्त्वं भवता ।। ६० ।। 15
न्या० स०--तृन्नुदन्ता०। “कर्मणि कृतः" [ २. २.८३. ] "कर्तरि" [ २. २. ८६. ] इति च प्राप्तायाः षष्ठ्या अपवादः । पायं पायं “रूणम् चाभीक्ष्ण्ये" [५. ४. ४८.] "भृशा०" [७. ४. १७३.] इति द्वित्वं च। भोक्तुं व्रजतीति-अत्र हेतुहेतुमद्भावे तृतीया, “तुमोऽर्थे०" [२. २. ६१. ] इत्यनेन चतुर्थी वा, संबन्धविवक्षायां षष्ठी वा। परिषद्यन्ते “स्थादिभ्यः कः" [ ५. ३. ८२. ] “असोङसिवसहस्सटाम्" [ २. ३. ४८. ]20 षत्वम्-परीषहाः, “घञ्युपसर्गस्य०" [३. २. ८६.] इति दीर्घः। आहरिष्यतीति "क्रियायाम् ०" [ ५. ३. १३. ] इति एकचि-आहारकः ।। छ ।। २. २. ६०.]
क्तयोरसदाधारे ॥२. २. ६१ ॥
सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यो क्तौ-क्तक्तवत् तत्संबन्धिनोः कर्म-कों: षष्ठी न भवति। कटः कृतो मैत्रेण, कटं कृतवान् ; 25 गतो ग्रामं चैत्रः, ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां ज्ञातः, राज्ञां बुद्धः, राज्ञां मतः, राज्ञामिष्टः, राज्ञां पूजितः, “कान्तो हरिश्चन्द्र इव