________________
[पा० २. सू० ८८-८६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २७६
पर्याय इत्येव कार्य, भावे तु "णिवेत्ति०" [५. ३. १११. ] इत्यनेनाऽनप्रत्यय एव स्या । नन्वत्र प्रयोज्य-प्रयोजककोंः प्रधाने प्रयोजके षष्ठी प्राप्नोति गौण-मुख्ययो: इति न्यायात्, सत्यम्- यथा एकवाक्यस्थयोः कर्बोस्तृतीया स्यात् तथा तद्वाधिका षष्ठ्यपि । अन्ये तु घलेति-ललितस्वभाव इत्यर्थः । काशिकाकारस्तु स्त्र्यधिकारविहितयोरणकयो: प्रतिषेधादन्यस्मिन्नपि स्त्रीप्रत्यय एव षष्ठीमिच्छति । अपरे तु णकाकारयोर्भावाभि- 5 धायकयोः कृतोः प्रतिषेधाशंसनादन्यस्मिन् भावाभिधायक एव षष्ठीमिच्छन्ति ।।२.२.८७।।
कत्यस्य वा ॥२. २.८८ ॥
कृत्यस्य कर्तरि गौरणान्नाम्न: षष्ठी वा भवति । भवतः कार्यः कटः, भवता कार्यः कटः; कर्तव्यः, करणीयः, देयः, कृत्यो वा कटः । कर्तरीत्येवगेयो माणवको गाथानाम्, प्रवचनीयो गुरुभदशाऽङ्गस्य ।। ८८ ॥
न्या० स०-कृतस्य वा। गेयो मारणवको गाथानामिति-अत्र व्यावृत्तेर्गाथानामित्यत्र कर्मणि साफल्यं, माणवकात् तु अगौणत्वात् प्राप्तिरेव नास्ति ।। २. २.८८ ॥
नोभयोहंतोः ॥ २. २. ८६ ॥
उभयोः-कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्य संबन्धिनोरुभयोरेव षष्ठी न भवति । नेतव्या ग्राममजा मैत्रेण, ऋष्टव्या ग्रामं शाखा चैत्रेण; जेतव्यः15 शतं मैत्रश्चैत्रेण । उभयोर्हेतोरिति किम् ? एकैकहेतोर्मा भूत-उपस्थानीयः पुत्रः पितुः, उपस्थानीयः पिता पुत्रस्य ।। ८६ ।।
न्या० स०--नोभयोः०। ननु द्विकर्मकेषु धातुषु तावदयं प्रतिधः, तत्रैवोभयप्राप्तिसंभवात, तत्र प्रधानकर्मणः कृत्येनैवाभिहितत्वात् षष्ठ्यविषयत्वा प्रधानाऽप्रधानसंनिधौ प्रधान एव संप्रत्ययः इति न्यायात् तव्यादिवत् अप्रधानादप्यप्रसङ्गात्20 कर्तर्येव प्रतिषेधो न्याय्य इत्युभयग्रहणमतिरिच्यते, नैवम्-द्वितीयाबाधिका हि कृत्प्रयोगे षष्ठी विधोयने, द्वितीया चाप्रधानाद् यथा भवति तथाऽत्र षष्ठयपि भविष्यति । उपस्थानीयः पुत्रः पितुः उपतिष्ठते "प्रवचनीयादयः" [५. १. ८.] इति कर्तर्यनीयः, अत्र पितुः शब्दात् “कर्मणि कृतः" [ २. २. ८३. ] इति कर्मणि षष्ठी, द्वितीये तु उपस्थीयते इति कर्मणि “तव्या-ऽनीयौ [५. १. २७.] “कृत्यस्य वा" [२.२.८८. ] इति कर्तरि25 पुत्रात् षष्ठी ।। २. २. ८६ ।।