________________
[ पा० २. सू० ६४.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६३
नावादिगणवर्जिताद् गौरणान्नाम्नश्वतुर्थी वा भवति । न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये; न त्वा बुसाय मन्ये, न त्वा बुसं मन्ये; न त्वा लोष्ठाय मन्ये, न त्वा लोष्ठं मन्ये; न त्वा शुने मन्ये, न त्वा श्वानं मन्ये; तृणाद्यपि न मन्येतृणादेरपि निकृष्टं मन्य इति कुत्सयते । मन्यस्येति किम् ? न त्वा तृणं चिन्तयामि । श्यनिर्देशः किम् ? न त्वा तृणं मन्ये । अनावादिभ्य इति किम् ? s न त्वा नावं मन्ये, न त्वा अन्नं मन्ये, न त्वा शुकं मन्ये, न त्वा शृगालं मन्ये, न त्वा काकं मन्ये; नावन्नयोरपि परप्रणेयताऽनायासोच्छेद्यतादिभिरतिकुत्सनत्वं भवति । कुत्सन इति किम् ? न त्वा रत्नं मन्ये, न ते मुखं चन्द्र ं मन्ये, न ते मुखं पद्म मन्ये; रत्नादिभ्योऽपि त्वदादीन् प्रधिकान् मन्य इति प्रशंसा । कुत्स्यतेऽनेनेति करणाश्रयणं किम् ? न त्वा तृणाय मन्य इति युष्मदो न 10 भवति । प्रतिग्रहणं किम् ? त्वां तृरणं मन्ये, सुवर्णं तृणं मन्ये; अत्र प्रयोगाभावे साम्यमात्रं प्रतीयते न त्वतिकुत्सा कुत्सामात्रेऽपीच्छन्त्येकेतृणाय त्वां मन्ये, तृणाय मन्यमानः सर्वान्, हरिमपि श्रमंसत तृणायेति । त्वा तृणस्य मन्तेति कृद्योगे परत्वात् षष्ठी । चतुर्थ्यपीति कश्चित् न तव बुसाय मन्ता, न तव बुसस्य मन्ता, न चैत्रस्य शुने मन्ता, न चैत्रस्य शुनो15 मन्तेति । उक्तकर्मणि तु - न त्वं बुसो मन्यसे मया, न चैत्रः श्वा मन्यते मया, नाहं बुसो मन्ये वृषलेनेत्यतिकुत्सनात् प्रथमेति । गणार्थम् ।। ६४ ।।
न
बहुवचनमाकृति
बुस्यति - त्यजति
न त्वा बुसाय मन्ये "बुसच् उत्सर्गे” [ ५. १. ५४ ] इति के बुसम् ।
"1
न्या० स० – मन्यस्या० । उपादेयभावमिति " "नाम्युपान्त्य ० न त्वा नावं मन्ये 20 नावादयो लक्ष्यदर्शनेना नुसत्तव्याः । अथ नावन्नयोरत्यन्तोपकारकत्वात् कथमतिकुत्सनत्वं गम्यत इत्याह-नावन्नयोरपीति - परेण स्वेच्छया अभिमतं स्थानं प्रकर्षण नीयते परप्रणेयः, पराधीनप्रवृत्तिरित्यर्थः, तस्य भावः परप्रणेयता । अनायासोच्छेद्यतादिभिरिति-प्रादिशब्दादचेतनत्वविनश्वरत्वादिग्रहः । न त्वा शुकमिति - शुकः पाठितो भरगति त्वं तदपि न । न त्वा रत्नमिति यतो रत्नं पाषाणः । न ते मुखं चन्द्रमिति - चन्द्रे कलङ्कः, 25 त्वन्मुखं निष्कलङ्कम् । न ते मुखं पद्ममिति - पद्मस्य रात्रौ संकोच:, त्वदास्यस्य न कदापि । युष्मदोऽपि मन्यव्याप्यत्वात् पक्षे चतुर्थी प्राप्नोतीत्याह- कुत्स्यतेऽनेनेति ।
"हरिमप्यमंसत तृणाय, कुरुपतिमजीगरणन्नवा |
मानतुलित भुवनत्रितयाः सरितः सुतादबिभयुर्न भूभृतः " ।। १ ।।