SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २६२ ] बृहद्वृत्तिलघुन्याससंवलिते [पा० २. सू० ६३-६४.] एधेभ्यो व्रजति ननु एधार्थं व्रजतीति तादर्थ्य एव चतुर्थी भविष्यति, किमनेन ? उच्यते-व्रज्याया एधाहरणार्थतायां विश्रामोऽस्ति, न त्वेधार्थतायामिति न सिध्यति ।। २. २. ६२ ।। गतेनवानाप्ते ॥ २. २. ६३ ॥ गतिः-पादविहरणं, तस्या गतेराप्येऽनाप्ते-असंप्राप्ते, वर्तमानाद् 5 गौरणान्नाम्नश्चतुर्थी वा भवति । ग्रामं गच्छति, ग्रामाय गच्छति; नगरं व्रजति, नगराय व्रजति ; विप्रनष्टः पन्थानं गच्छति, पथे गच्छति, उत्पथेन पन्थानं पथे वा गच्छति । गतेरिति किम् ? आदित्यं पश्यति, मेरु शृणोति, स्त्रियं गच्छति; मनसा मेरु गच्छतीत्यत्र ज्ञानार्थो गमिः । आप्य इत्येवग्रामादागच्छति । अनाप्त इति किम् ? पन्थानं गच्छति । कृद्योगे तु परत्वात्10 षष्ठय व भवति-ग्रामस्य गन्ता । द्वितीयैवेत्यन्ये-ग्रामं गन्ता । चतुर्थी चेत्यन्ये ग्रामं गन्ताग्रामाय गन्तेति ।। ६३ ।। न्या० स०--गतेनवा०। गतिशब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात् . पादविहरणरूपैव गतिगृह्यते, ज्ञानादिव्याप्यस्याऽनाप्तत्वाऽसंभवादित्याह-गतिः पादविहरणमिति । स्त्रियं गच्छतीति-भजनार्थोऽत्र गमिर्न गत्यर्थ इति न चतुर्थी । पन्थानं15 गच्छतीति-अनाप्त-असंप्राप्त कम्मणि चतुथी, पन्थास्तु सप्राप्त इति चतुथ्यभावः । द्वितीयवेत्यन्य इति-सारसंग्रहकारादयः, ते हि-“गत्यर्थकर्मणि द्वितीया-चतुथ्यौं' इति सूत्रेण कर्मणि द्वितीयायां प्राप्तायां तदपवादो वैकल्पिकी चतुर्थ्यारभ्यते इति पक्षे द्वितीया सिद्धैवेति द्वितीयाग्रहणात ग्रोमं गन्तेत्यत्र कृतः कर्मणि अपवादभूतामपि षष्ठीं बाधित्वा द्वितीयैव भवति, चतुर्थी तु षष्ठया परत्वाद् बाध्यत एवेति मन्यन्ते । चतुर्थी चेत्यन्य20 इति-उत्पल इत्यर्थः, स ह्य वं मन्यते-द्वितीयाविषय इयं वैकल्पिकी चतुर्थ्यारभ्यते, द्वितीयायाश्चात्रापवादात् कुतोऽपि विषय उपनत इति तद्विषये पक्षे चतुर्थी प्रवर्तत एव-ग्रामं गन्ता, ग्रामाय गन्तेति । एतेषु चायमस्मदभिमतः षष्ठीपक्ष: श्रीशेषभट्टारकस्यापि संमतः, कथं हि शब्दानां साधुत्वं युक्तिबलेन शक्यं व्यवस्थापयितु, यत्र तुल्यपदार्थे उष्णं च तदुदक च उष्णोदकमिति साधुः, उष्णं च तत् पानीयं च उष्णपानीयमिति कालदृष्टोऽपशब्दः,25 तापसश्चायं कुमारश्च तापसकुमार इति साधुः, तापसी चेयं कुमारी च तापसकुमारीति अचिकित्स्योऽपशब्दः, पानीयोष्ण कुमारतापसी चेति साधुरेव ।। २. २.६३ ॥ मन्यस्यानावादिभ्योतिकुत्सने ॥ २. २. ६४ ॥ अतीव कुत्स्यतेऽनेनेत्यतिकुत्सनम्, तस्मिन् मन्यतेराप्ये वर्तमानात्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy