________________
२५८ ]
बृह वृत्ति लघुन्याससंवलिते
[पा० २. सू० ५६-५७.]
संपद्यते इति क्रियया सह सम्बन्धाद् गौणत्वाभावात् कथं मूत्रशब्दाच्चतुर्थी ?, उच्यतेएतत्सूत्रसामर्थ्यादेवात्र गौणमुख्यभावेन क्रियासंबन्धात् मूत्रस्य गौणत्वन, तथाहि-प्रथम यवाग्वा सह क्रियायाः संबन्धः पश्चान्मूत्रस्येति । गौणादिति व्यावृत्त्युदाहरणे तु मूत्रादेविशेष्यार्थं मूत्रादिकं प्रथमं क्रियया संबन्धनीयम्, यद्वा मूत्रायेति कोऽर्थः ? मूत्ररूपविकारसंबन्धित्वेन यवागूः संपद्यत इत्यर्थः । तद्विकाररूपमिति-अत्र तस्य यवाग्वादेविकारस्तस्य 5 रूपं कर्मतापन्नमापद्यते-प्राप्नोति, मूत्रं कर्तृ, अकर्मकोऽपि पदिस्तदा तद्विकाररूपं मूत्रं कर्तृ आपद्यते सम्पद्यते इत्यर्थः, अत्र प्रथमायाः प्राप्तौ चतुर्थी। चैत्रस्य कल्पन्ते' इत्यत्र चैत्रो धनादीनां स्वामी न विकार इति न भवति । मूत्रं संपद्यते यवाग्वा इति-यवाग्वा अपगच्छदिदं मूत्रं संपद्यत इत्यपायः। चैत्राय शतं धारयतीति-"धृङत् अवस्थाने" ध्रियतेतिष्ठति स्वरूपान्न प्रच्यवते शतं कर्तृ, तत् ध्रियमारणं प्रयुङ क्त इति णिग्, अपरपठि-10 तश्चुरादौ वा। उत्तमो धनिक इति-यो हि धनं प्रयुङक्त स लोके उत्तमत्वेन प्रसिद्धः, यस्तु गृह्णाति सोऽधमत्वेन, उत्तमाधमाभ्यां संबद्धमृणमपि तथैव व्यपदेष्टव्यमित्युत्तममृणं यस्येति कार्यम् ।। २. २. ५५ ।।
प्रत्याछा श्र वाथिनि ॥ २. २. ५६ ॥
प्रत्याभ्यां परेण शृणोतिना युक्तादथिनिअभिलाषुके वर्तमानाद्।5 गौरणान्नाम्नश्चतुर्थी भवति । द्विजाय गां प्रतिशृणोति, द्विजाय गामाशृणोति ; याचितोऽयाचितो वा प्रतिजानीते इत्यर्थः। प्रत्याङ इति किम् ? चैत्रस्य शृणोति । अथिनीति किम् ? द्विजाय गां प्रतिशृणोतीत्यत्र गवि मा भूत् ॥ ५६ ।।
न्या० स०--प्रत्याङः०। अथिनीति-अर्थयते इत्यर्थी-अभिलाषुकः, "अर्थरिण20 उपयाचने" इति पाठात। याचितोऽयाचितो वेति-अधमत्वाद याचमाने महत्त्वादयाचमानेऽपि केनाप्याकारादिना स्वाभिलाषं समर्पयर्यात द्विजादौ ओमिति तस्य प्रतिजानीतेप्रतिपद्यते, अभ्युपगच्छतीत्यर्थः ।। २. २. ५६ ।।
प्रत्यनोगुणाoयातरि ॥ २. २. ५७ ॥
प्रत्यनुभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानाद् गौणान्नाम्न-25 श्चतुर्थी भवति । प्राचार्याय प्रतिगृणाति, प्राचार्यायानुगृणाति; प्राचार्योक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् ? आचार्यं गृणाति । आख्यातरीति किम् ? प्राचार्याय मनसा प्रतिगृणातीत्यत्र मनसि मा भूत् ।। ५७ ।।