________________
[पा० २. सू० ५४-५५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २५७
तादटयें ॥ २. २. ५४ ॥
किञ्चिद् वस्तु संपादयितुं यत् प्रवृत्तं तत् तदर्थम्, तस्य भावे तादयेंसंबन्धविशेषे द्योत्ये गौणान्नाम्नः षष्ठ्यपवादश्चतुर्थी भवति । यूपाय दारु, कुण्डलाय हिरण्यम्, रन्धनाय स्थाली, अवहननायोलूखलम् ।। ५४ ।।
न्या० स०-तादर्थ्ये। यूपाय दारु अत्र यूपादिहेतुभूतस्य दार्वादेर्हेतुतृतीया न, 5 अगौणत्वात् ॥ २. २. ५४ ॥
रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥ २. २. ५५ ॥ . रुच्यर्थैः कृप्यर्थैर्धारिणा च धातुना योगे यथाक्रमं प्रेये विकारे उत्तमर्णे च वर्तमानाद् गौणान्नाम्नश्चतुर्थी भवति, वचनसाम्यं यथासंख्यार्थम्; बहुवचनं तु एक-द्वि-बहाविति यथासंख्याऽभावार्थम् । रुच्यर्थः प्रेये-प्रीयमाणे-जिनदत्ताय10 रोचते धर्मः, गुरुदत्ताय स्वदते दधि; तस्याभिलाषमुत्पादयतीत्यर्थः । प्रेय इति किम् ? चैत्राय रोचते मोदको माधुर्येण, माधुर्यशब्दात् न भवति । प्रेयसंबन्धादभिलाषकरणार्थस्य रुचेर्ग्रहणम्, तेनेह न भवति-सर्वेषामेतद् रोचते, कथं वा तवेति, प्रतिभातीत्यर्थः । कथं रोचते मम घृतं सह मुद्गः शालयो दधिशरं कुकुराश्च ?, घृतमेव ममापि रोचते शृतशीतं च सशर्करं पयः ?,15 संबन्धमात्रविवक्षायां षष्ठय व भविष्यति । कृप्यविकारे-मूत्राय कल्पते यवागूः, उच्चाराय संपद्यते यवान्नम्, श्लेष्मणे जायते दधि, तद्विकाररूपमापद्यत इत्यर्थः । विकार इति किम् ? चैत्रस्य कल्पन्ते धनानि, संपद्यन्ते शालयः । गौणादित्येव-मूत्रमिदं संपद्यते यवागूः, उच्चारोऽयं संपद्यते यवान्नम्, शृङ्गाच्छरो 'जायते, गोमयाद् वृश्चिकः प्रभवति, मूत्रं संपद्यते यवाग्वाः; 20 यवाग्वा इति च पञ्चमी अपाविवक्षायाम् । धारिणोत्तमणे-चैत्राय शतं धारयति । उत्तमर्ण इति किम् ? शतशब्दान्न भवति । उत्तमो धनिकः ।। ५५ ।।
न्या० स०--रुचि-क्लप्यर्थः। सम्बन्धमात्रेति-पत्र सत्यपि प्रेयत्वे पेयता न विवक्षिता, अपि तु तत्क्रियासंबन्धमात्रमिति न चतुर्थी । मूत्राय कल्पते यवागूः यवागू:25 की संपद्यते. किं संपद्यते ? मूत्र-मूत्ररूपमित्यर्थः । ननु मूत्र-यवागूशब्दयो योरपि