________________
[पा० २. सू० ५०-५१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २५५
तदर्थः सिनोतिरेव क्तान्तो गृह्यत इत्याह-प्रकर्षणेत्यादि । ननु प्रसितशब्दस्य शुक्लगुणवचनस्य क्रियार्थस्य च संभवादुभयार्थस्यापि ग्रहणप्रसङ्ग इत्याह-अवबद्धोत्सुकसाहचर्यादिति ।। २.२.४६ ।।
व्याप्ये विद्रोणादिभ्यो वीप्सायाम् ॥ २. २. ५० ॥
व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो गौणनामभ्यो वीप्सायां तृतीया वा 5. भवति । द्विद्रोणेन धान्यं क्रीणाति, द्विद्रोणं द्विद्रोणं क्रीणाति, तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विवचनं न भवति, द्वितीया तु कर्मणि विहिता न विप्सायामतस्तदन्तस्य द्विर्वचनं भवति । एवं-पञ्चकेन पशून् क्रीणाति, पञ्चकं पञ्चकं क्रिरणाति; सहस्रणाऽश्वान् क्रीणाति, सहस्र सहस्र क्रीणाति, द्विद्रोणादयः प्रयोगगम्याः ।। ५० ।।
10 न्या० स०-व्याप्ये द्वि०। द्विद्रोणेन धान्यं क्रोणाति, द्वौ द्रोणौ मानमस्य धान्यस्य "मानम्" [ ६. ४. १६६. ] इतीकरण, तस्य "अनाग्न्य." [६. ४. १४१.] इति लुप्, यद्वा द्वौ द्रोणो मेयावस्य धान्यस्य, कोऽर्थः ? अनेन धान्येन द्वौ द्रोणो मीयेते, तदा इकण नागच्छति मेयवाचित्वाद् द्रोणस्य, यद्वा द्वयोर्दोणयोः समाहारो द्विद्रोणम् , पात्रादित्वात् स्त्रीत्वाभावः, अत्र द्रोणो व्रीहिरोढको व्रीहिरितिवत द्रोणशब्दो मेयवत्तिः,15 तेन धान्यस्य समानाधिकरणो द्विद्रोणशब्दः । एवं-पञ्चकेन पशन कोरणातीति-पञ्चति संख्या मानमस्य “सख्यायाः संघसूत्र०" [६. ४. १७१.] इति यथाविहितः “संख्याडतेः०" [ ६. ४. १३०. ] इति कः, पञ्चकं पञ्चकं संघ पशून् क्रीणातीत्यर्थः, पञ्चकं पञ्चकमित्यत्र पशुसामानाधिकरण्येऽपि पञ्चकशब्दाद् ब्राह्मणाः संघ इतिवद् एकवचनम् । द्विद्रोणादय इति-पादिशब्दस्य प्रकारार्थत्वाद् येभ्यो वीप्सायां प्रयोगे तृतीया दृश्यते ते द्विद्रोणादयः,20 न तु गर्गादिवत् सन्निविष्टा इति ॥ २. २. ५० ॥
समो ज्ञोऽस्मृतौ वा ॥ २. २. ५१ ॥
अस्मृतौ वर्तमानस्य संपूर्वस्य जानातेर्यद् व्याप्यं तत्र वर्तमानाद् गौणानाम्नस्तृतीया वा भवति । मात्रा संजानीते, मातरं संजानीते। सम इति किम् ? मातरं जानाति । ज्ञ इति किम् ? मातरं संवेत्ति । अस्मृताविति25 किम् ? मातरं संजानाति, मातुः संजानाति ; स्मरतीत्यर्थः । व्याप्य इत्येवमातरं स्वरेण संजानीते, करणे विकल्पो न भवति । मातुः संज्ञातेति कृतिपरत्वात् षष्ठी। नवाधिकारे वाग्रहणमुत्तरत्र तन्निवृत्त्यर्थम् ॥ ५१ ॥