________________
२५४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० २. सू० ४६. ]
इति किम् ? पुष्यं विद्धि । 'स्थाल्या पच्यते ' इत्यादिवत् श्राधारस्य करणविवक्षायां तृतीया सिध्यति संबन्धविवक्षायां तु षष्ठी मा भूदिति वचनम् ।। ४८ ॥
न्या० स०-- काले भा० । स्वार्थिकप्रत्यया नातिवर्तन्ते प्रकृतिलिङ्गवचनानीति कालेऽपि नक्षत्रशब्दो नक्षत्रलिङ्गसंख्य एव । पुष्येण पायसमश्नीयात् पुष्येण चन्द्रयुक्त - 5 नेत्यादिप्रक्रियायां पुष्यशब्दः काले वर्तते, पयसि संस्कृतं भक्ष्यं "संस्कृते भक्ष्ये" [ ६.२. १४०. ] अण ू, पयसा संस्कृतमिति तु कृते तृतीयाधिकारनिवेशितेन "संस्कृते” [ ६. ४. ३. ] इति सूत्रेण इकणेव भवति । अध्वनि मा भूदिति प्रत्र विशिष्टतारकावछिन्न क्षेत्रे पुष्य- मघाशब्दौ वर्तेते, न काले इति । चित्रा माणविका इति यद्यपि चित्राशब्दो माणविकायां वर्त्तमानः कालमप्युपाघित्वेनोपादत्ते, यतश्चित्रासु जाता या सा चित्रा 10 इति विशेषणत्वेन प्रतीयमानत्वात् कालेऽपि वृत्तिः संभाव्यते, तथापि तत्र कालस्य गौणत्वात् गौरण-मुख्ययोश्च मुख्ये कार्यसंप्रत्ययात् न भवति । स्वावच्छिन्न काले इति - स्वेन श्रात्मना, अवच्छिद्यते यस्तिलच्छेदतिलपुष्पविशिष्ट: काल:, - कोऽर्थः ? -यत्र काले तिलाः पुष्यन्ति तिलानां छेदश्च भवतीत्यर्थः ।
"तिलपुष्पेषु यत् क्षीरं, तिलच्छेदेषु यद् दधि । तिलवापेषु यत् तोयं तेन वृद्धो न जीवति" ।। १ ।।
इति सुश्रुतमतम्, सारोद्धारमते पूर्वार्द्धं तदेव, उत्तरार्द्धं तु–
"माघमासे च यद् भुक्त, तेन वृद्धो विनश्यति । " कोऽर्थ ? पुनर्नवो भवति ।। २.२.४८. ।।
15
प्रसितोत्सुका-श्वबद्धैः ।। २. २. ४६ ।।
एतैर्युक्तादाधारे वर्तमानाद् गौणान्नाम्नस्तृतीया वा भवति । केशैः प्रसितः, केशेषु प्रसितः; प्रकर्षेण सितो बद्धः प्रसितः, नित्यप्रसक्त इत्यर्थः ; गृहेणोत्सुकः, गृहे उत्सुकः; केशैरवबद्धः, केशेष्ववबद्धः । श्रधार इत्येव - मनसा प्रसितः, मनसोत्सुकः, मनसाऽवबद्धः । करण तृतीयाया विकल्पो मा भूत् । अवबद्धोत्सुकशब्दसाहचर्यात् तदर्थ एव प्रसितशब्दोऽत्र गृह्यते । पूर्ववत् षष्ठी - 25 बाधनार्थं वचनम् । बहुवचनमेक- द्वि-बहाविति यथासंख्यनिवृत्त्यर्थम् ॥। ४६ ।।
न्या० स० -- प्रसितो० । प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति प्रकृष्टः सित: शुक्ल इति क्रियावचनोऽप्यस्ति यः स्यतेः सिनोतेर्वा भवतीति तत्रोत्सुकाऽवबद्ध शब्द साहचर्यात्
20