SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ४६.] निदिश्यते, उच्यते-विवक्षितयोगाभावात्, सहैव दशभिरित्यत्र वहनमात्रं विवक्षितं, तद् गर्दभ्या एव न तत्पुत्राणां, यथा पुत्रेण सहागत इत्यागमनमुभयोरपीति तुल्ययोगाद् विद्यमानता भिन्ना । न्योण सामस्त्येनेत्यर्थः ।। २. २. ४५ ।। , यद्भेदैस्तद्वदाख्या ॥ २. २. ४६ ॥ यस्य-भेदिनः प्रकारवतोऽर्थस्य, भेदैः-प्रकारैविशेषैः, तद्वतः-तत्प्रकार-5 वदर्थयुक्तस्य, आख्या-निर्देशो भवति, तद्वाचिनो गौणानाम्नस्तृतीया भवति । अक्षणा काणः, पादेन खञ्जः, हस्तेन कुरिणः, शिरसा खल्वाटः, प्रकृत्या. दर्शनीयः, प्रायेण वैयाकरणः, गोत्रेण काश्यपः, जात्या ब्राह्मणः, जात्या सुशीलः, स्वभावेनोदारः, निसर्गेण प्राज्ञः, वर्णेन गौरः, स्पर्शेन शीतः, वचनेन मृदुः, रसेन स्वादुः, मुखेन सुरूपः, उरसा विशालः, बाहुभ्यां दृढः-सर्वत्र10 पुरुषस्तद्वान् संबध्यते । यद्ग्रहणं प्रकृतिनिर्देशार्थम्, तत इत्याक्षेपात् । भेदग्रहणं किम् ? यष्टी: प्रवेशय, कुन्तान् प्रवेशय । तद्वद्ग्रहणं किम् ? अक्षि कारणं पश्य । आख्याग्रहरणं प्रसिद्धिपरिग्रहार्थम्, तेनाऽक्षणा दीर्घ इति न भवति । कृत-भवत्यादिक्रियाऽध्याहारेण कर्तृ-करणयोस्तृतीया सिद्धव, संबन्धषष्ठीनिवृत्त्यर्थं तु वचनम् ।। ४६ ।। 15 न्या० स०--यद्भवैः। अवयवावयविलक्षणसंबन्धे षष्ठीप्राप्तौ वचनम् । यस्यभेदिनश्चक्षुरादेः, भेदैः-कारणत्वादिभिः, तद्वतः चतुरादिमतः पुरुषादेस्तत्प्रकारवदर्थयुक्तस्य, कोऽर्थः ? स:-प्रकारवान् अक्ष्यादिरर्थः, तेन युक्तस्य चैत्रादेः, आख्या-निर्देशो भवति तद्वाचिन अक्ष्यादिवाचिन:, तृतीया भवतीत्यर्थः। अक्षरणा कारणः अक्षि कारणं चाकारणं च भवतीति काणत्वभेदेन तद्वांश्चैत्रादिनिर्दिश्यते । शिरसा खल्वाटः खलन्ति-अपगच्छन्ति 20 केशा अस्मादिति “कपाट०" [ उणा० १४८. ] इत्यादिशब्दात् साधुः । प्रकृत्या दर्शनीयः प्रकृतिः-स्वभावः, तद्भदः-दर्शनोयत्वम्, स्वभावो हि दर्शनीयत्वमदर्शनीयत्वं च भवति, तद्भ देन दर्शनीय इति प्रकृतिमानाख्यायते । प्रैतीति "तन्व्यधि०" [५. १. ६४.] इति णे-प्रायः, तद्भदो वैयाकरणत्वं ताकिकत्वं चेति तद्भ देन वैयाकरण इति तद्वान् निर्दिश्यते। ननु च 'प्रकृत्या दर्शनीयः, प्रायेण वैयाकरणः' इति युक्तः प्रयोगः, दर्शनी-23 यत्वं हि प्राकृतं वैकृतं चास्ति, वैयाकरणत्वं च प्रायिकमन्यच्च, तत्रेतरव्युदासार्थं प्रकृत्या प्रायेणेति चार्थव, कारण इत्यादिप्रयोगे त्वक्षणेत्यादिरव्यभिचारेण प्रतीतेरयुक्तः प्रयोगोऽर्थस्य गतत्वात्, उच्यते-लोकोऽत्र पर्यनुयोक्तव्यः योऽर्थवतोऽनर्थकतामनपेक्ष्य प्रतीतेऽपि शब्दान् प्रयुङ क्त, लोके च न सर्व एवं सूक्ष्मेक्षिकया शब्दान् प्रयुङक्ते, यद्वा सूक्ष्मेक्षिकया प्रयोगेऽपि उपचरितार्थनिवृत्तिरक्ष्णेत्यादिप्रयोगे प्रयोजनं-सत्यमयं काणो न तूपचारेणेति 130
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy