________________
[पा० २. सू० ४५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २५१
नाम्नो विहितायास्तृतीयायाः कथमत्र प्राप्तिः ?, नैवम्-'नामन्त्र्ये" [२. १. ६२.] इति प्रतिषेधसत्रकरणात, तद्धि हे राजनित्यादिष नलोपाभावार्थम, तन्न युक्तम्-प्राप्तिपूर्वको हि प्रतिषेधः, अत्र तु “नाम्नो नोऽनह्नः" [ २. १. ६१.] इत्यनेन हे राजन्नित्यादिषु विभक्तिद्वारा नामत्वाभावे नलोपप्राप्तिरेव नास्ति, तस्माद् “नामन्त्र्ये" [ २. १. ६२. ] इति प्रतिषेधसूत्रकरणान्नामकार्य प्रतिपन्नम्, ततः समासमध्येऽपि प्राप्ति:; तहि धर्मश्रित 5 इत्यादावपि समासे द्वितीयादिप्रसङ्गः स्यात्, तन्न-कर्मादिशक्त: संबन्धस्य च समासेनवाभिहितत्वात् ; तर्हि नामार्थमात्रे प्रथमा भवतु, तदपि न-आख्यातपदसामानाधिकरण्ये प्रथमा; तहि नीलोत्पलमित्यादिषु नीलेन सहाख्यातपदसामानाधिकरण्ये कथं प्रथमा ?, उच्यते-तत्रापि सामानाधिकरण्यं नास्ति, अन्यथा सापेक्षत्वे समासोऽपि न स्यादिति; तहि कमण्डलुपाणिशब्दात् उपसर्जनीभूतलक्षणात् तृतीया प्राप्नोति, न-लक्षणस्य प्राधान्ये 10 तृतीया न लक्ष्यस्य इति न भवतीति शाकटायनः ।। २. २. ४४ ।। .
सहाथै ॥ २. २. ४५॥
सहार्थस्तुल्ययोगो विद्यमानता च, तस्मिन् शब्दादर्थाद् वा गम्यमाने गौरणान्नाम्नस्तृतीया भवति । पुत्रेण सहाऽऽगतः, पुत्रेण सह स्थूलः, पुत्रेण सह गोमान्, शिष्येण सह ब्राह्मणः, तिलैः सह माषान् वपति, “सहैव दशभिः15 पुत्रैर्भार वहति गर्दभी ।” अर्थग्रहणात्-पुत्रेण साकम्, पुत्रेण समम्, पुत्रेण साधं, पुत्रेणामा, पुत्रेण युगपद्; अर्थाद् गम्यमाने-पुत्रेणाऽऽगतः, वृद्धो यूना, न्यक्षेण करोति; एवं-कात्स्न्येन, साकल्येन, अनवयवेनेत्यादावपि सहार्थोऽस्ति । 'सुखेनास्ते, दुःखेन जीवति, कष्टेन क्रामति, अनायासेन करोति' इत्यादावास्यादिक्रियाभिः सह सुखादेः सहार्थोऽस्ति, क्रियाविशेषणत्वविवक्षायां20 तु द्वितीयैव-सुखमास्ते, दुःखं जीवति, कष्ट कामति, अनायासं करोतीत्यादि । गौणादित्येव-सहोभौ चरतो धर्मम्, चैत्रमैत्राभ्यां सह कृतमिति तु कर्तर्येव तृतीया ।। ४५ ॥
न्या० स०--सहार्थे । तुल्यः-साधारणोऽप्रधानस्य प्रधानेन क्रियादिना' यः संबन्धः स-तुल्ययोगः। विद्यमानता चेति-ननु च विद्यमानतायामपि तुल्ययोगोऽस्त्येव, सत्तया25 सहोभयोः सम्बन्धात्, तथाहि-“सहैव दशभिः पुत्र रं वहति गर्दभी।" इति सहैव दशभिः पुत्रैः सतीति शक्यं प्रतिपत्तुम्, तत्र विद्यमानता चेति तुल्ययोगात् किं पृथग्
१. आदि शब्दात् स्थौल्यादिगुणो गवादिद्रव्यं ब्राह्मण्यादि जातिग्रहः ।