________________
२४० ]
बृहद्वृत्तिलधुन्याससंवलिते
पा० २. सू० ३२-३३.]
तिवादीनामेकवचनादीनि प्रवर्तन्ते तथा स्यादीनामपि प्रवर्तेरन्, एवं वाक्यादप्यवयवगतां वर्णाच्च निरर्थकादपि स्वरूपगतां सङ्ख्यामाश्रित्य प्रथमा स्यादित्याह-निरर्थकाद् वर्णाद् धातु-वाक्याभ्यां चेति-उपलक्षणत्वात् पदादपि । नन्वर्थमात्रे प्रथमेत्युक्तत्वान्मात्रग्रहणस्य चाधिकार्थव्यवच्छेदकत्वाद् वीरपुरुष इत्यादौ सामानाधिकरण्येनार्थमात्राद् विशेषणविशेष्यभावस्याधिकस्य प्रतीतेः प्रथमा न प्राप्नोति, समासविधानमपि प्रथमो- 5 त्पत्तेलिङ्ग न भवति, वीरपुरुषमानयेति द्वितीयाद्यन्तानामपि समाससम्भवादिति प्रथमा न विधेया, नैष दोषः-आधिक्यस्य वाक्यार्थत्वाद् वीरनाम्नोऽनपेक्षितशब्दान्तरार्थसंसर्गोपविशेषणभावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयते, एवं पुरुषशब्दादपि ।। २. २. ३१ ॥
आमन्ये ॥ २. २. ३२ ॥
प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्रणम्, तद्विषय10 आमन्त्र्यः; तस्मिन्नर्थे वर्तमानान्नाम्न एक-द्वि-बहौ यथासंख्यं प्रथमा विभक्तिर्भवति । हे देवदत्त !, हे देवदत्तौ !, हे देवदत्ताः !; हे पचन् !, हे पचमान !। आमन्त्र्य इति किम् ? राजा भव, अत्र राजा नाऽऽमन्त्र्यः, किन्तु स एव विधीयत इति पूर्वेणैव प्रथमा । षष्ठीप्राप्तौ वचनम् ।। ३२ ।।
__ न्या० स०--आमन्त्र्ये। प्रसिद्धतत्सम्बन्धस्येति-तेन-पाण्डित्य-देवदत्तत्वादिना15 प्रवृत्तिनिमित्तेन सम्बन्धः, यद्वा तेन-आमन्त्र्यवाचिना देवदत्तादिशब्देन सम्बन्धो वाच्यवाचकभावलक्षणः, प्रसिद्धस्तत्सम्बन्धो यस्य देवदत्तादेस्तस्य कर्मतापन्नस्य, येन शब्देन आत्मा निरवधान: सावधानः क्रियते तदामन्त्रणमिति स्पष्टार्थः । तद्विषय आमन्त्र्य इति-आमन्त्र्यपदं हि क्रियाया विशेषणं भवति; हे देवदत्त ! व्रजाम्यहमित्यत्राभिमुखीकृतदेवदत्तविशिष्टा व्रज्या प्रतीयते, यदाह हरिः--
"आमन्त्रितपदं यच्च, तत क्रियाया विशेषकम् । व्रजामि देवदत्तेति, निघातोऽत्र प्रतीयते" ।।१।।
20
ततश्च देवदत्तादेः क्रियाविशेषणात कर्माद्यतिरिक्तामन्त्रणसम्बन्धे शेषरूपे वर्तमानाद् गौरणात् प्रथमापवादः षष्ठी प्राप्नोति तद्बाधनार्थमिदमुच्यते, सम्बन्धश्चामन्त्र्यामन्त्रणभावो विषयविषयिभावो वा ।। २.२.३२ ।।
25
गौणात् समया-निकषा-हा-धिगन्तरान्तरेणा-अति.
येन-तेनैदिवतीया ॥ २. २. ३३ ॥
आख्यातपदेनासमानाधिकरणं गौणम् गौणानाम्नः समयादिभिर्निपा