________________
२३२ ]
बृहदवृत्ति-लघुन्याससंवलिते
[पा० २. सू० २८-२६.]
न्या० स०-कुद्-दुहेा। शब्दशक्तिस्वाभाव्यात् क्रुधिद्रुहो अकर्मकावेव, सम्बन्धषष्ठयां प्राप्तायां संप्रदानम् । मनसा क्रुध्यतीति-नात्र मनस उपरि कोपः किन्तु तेन कृत्वाऽन्यस्य पुरुषादेः । कर्तुरपीति-न केवलं विषयसप्तम्यां यं प्रति कोपस्तस्य संप्रदानत्वम्, आधारमात्रत्वेन कर्तु रपि स्यादित्यर्थः । शिष्यस्य कुप्यतीति-शिष्यसम्बन्धिनोऽविनयस्योपरि कोपो न तु शिष्यस्य । धनिनो द्रुह्यतीति-अत्र धनस्योपरि द्रोहो 5 न तु प्राणानाम् । भार्यामीर्ण्यतीति-अन्येनावलोक्यमानां न सहते, वृत्तौ मैनामितितात्पर्यार्थोऽकयि। द्विषेरप्रीत्यर्थत्वादिति-अप्रीतिमात्रमेव विवक्षितं न तु क्रुधादय इत्यर्थः । अत्रेदं विचार्यते-कोपाद् द्रोहादयो भिन्नस्वभावा व्याख्याताः, तत् कथं तदथाना यं प्रति कोप इति सामान्येनैतद् विशेषणमुपपद्यते, तेषां हि यं प्रति द्रोहो यं प्रतीा यं प्रत्यसूयेत्येव घटते, नैष दोषः-क्रोधस्तावत् कोप एव, द्रोहादयस्तु द्विप्रकारा:-केचित्10 कोपहेतुका: केचिद् वस्त्वन्तरहेतुकाः, तत्रेह पूर्वेषां ग्रहणं यथा स्यादुत्तरेषां माभूदित्येवमर्थं 'यं प्रति कोपः' इति सामान्येन विशेषणमुपात्तम्, अन्यथाऽव्यभिचारादिदमनुपादेयं स्यात् ।। २. २. २७ ॥
नोपसर्गात् कद-दहा ॥ २. २. २८ ॥
उपसर्गात् पराभ्यां क्रुधि-द्र हिभ्यां योगे यं प्रति कोपस्तत् कारक15 संप्रदानसंज्ञं न भवति । मैत्रमभिक्रुध्यति, मैत्रमभिद्र ह्यति; क्रुधि-द्र ही सोपसगौं सकर्मकाविति द्वितीया। उपसर्गादिति किम् ? मैत्राय क्रुध्यति, मैत्राय द्र ह्यति ।। २८ ।।
न्या० स०-नोपसर्गात कद-द्रहा। मैत्रमभिक्रुध्यतीत्यत्र अभिव्याप्य कोपवान् । अपचिकीर्षावान्, अभिव्याप्त्युपसर्जने वृत्तिः कोपादौ ।। २. २. २८ ॥
अपायेऽवधिरपादानम् ॥ २. २. २६ ॥
सावधिकं गमनमपायः, तत्र यदवधिभूतमपायेनानधिष्ठितं तत् कारकमपादानसंज्ञं भवति । ग्रामादागच्छति, पर्वतादवरोहति, सार्थाद्धीनः, वृक्षात् पर्ण पतति, धावतोऽश्वात् पतितः, पततो देवदत्ताद् धावत्यश्वः, मेषान्मेषोऽपसर्पति । तदेतत् त्रिविधम्-निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितक्रियं च; यत्र25 धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तनिर्दिष्टविषयम्, यथा-ग्रामादागच्छति; यत्र तु धातुर्धात्वन्तराऽर्थाङ्ग स्वार्थमाह तदुपात्तविषयम्, यथा-बलाहकाद् विद्योतते विद्युत्, अत्र हि निःसरणाङ्ग विद्योतने विद्युतिर्वर्तते, यथा वा