________________
[पा० १. सू० ११५-११६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २०७
लुग् भवति । मुनौ, साधौ; पितुः, मातुः; पिता, माता; एषु व्यपदेशिवद्भावादन्त्यस्वरादित्वम् । महत्याः करः-महाकरः, महाघासः, उपसरजः, मन्दुरजः, त्रिंशता. क्रीतम्-त्रिशकम्, आसन्नाश्चत्वारो येषामासन्नचताः, अदूरचताः । डितीति किम् ? दृषदौ, दृषदः ११४ ।।
न्या० स०-डित्यन्त्य० । सति यस्मिन् यस्मात् पूर्वमस्ति परं नारित सोऽन्तस्तत्र 5 भवोऽन्त्यः । मनौ अत्र सर्वत्र "इवर्णादेरस्व०" [ १. २. २१.] इति प्राप्ते परत्वादनवकाशत्वाच्च ङित्त्वस्य लुगेव । उपसरज इति-उपसरे देशे जातः । मन्दुरज इति-मन्दुरे मन्दुरायां वा जातः “ड्यापो बहुलं नाम्नि" [२. ४. ६६.] इति ह्रस्वः ।। २. १. ११४ ।।
अवर्णादश्नोऽन्तो वाsतुरी-डयोः ॥ २. १. ११५ ॥
श्नावजितादवर्णात् परस्यातुः स्थानेऽन्त इत्यादेशो वा भवति, ई-योः-10 ईप्रत्यये ङीप्रत्यये च परे । तुदन्ती तुदती कुले; तुदन्ती तुदती स्त्री; करिष्यन्ती करिष्यती कुले; करिष्यन्ती करिष्यती स्त्री; भान्ती भाती कुले; भान्ती भाती स्त्रो; प्सान्ती प्साती कुले; प्सान्ती प्साती स्त्री । अवर्णादिति किम् ? अदती सुन्वती रुन्धती तन्वती स्त्री कुले वा, एषु शतृः; अधीयती स्त्री कुले वा, अत्रातृश्; जरती स्त्री कुले वा, अत्रातः । अश्न इति किम् ? क्रीणती15 लुनती स्त्री कुले वा। ई-योरिति किम् ? तुदता कुलेन । अवर्णादिति विशेषणादश्न इति प्रतिषेधाच्च लोप-दीर्घाभ्यां पूर्वमेवानेनान्तः, भूतपूर्वतया वा पश्चात् । 'ददती स्त्री, ददती कुले' इत्यत्र तु कृतेऽप्यन्तादेशे “अन्तो नो लुक्” [४. २. ६४.] इति नलोपः ॥ ११५ ।।
न्या० स०-अवर्णादश्नो०। ननु तुदन्ती भान्तीत्यादावीङयोरनपेक्षत्वेन वर्ण-20 मात्राश्रयत्वेन चान्तरङ्गत्वात् "लुगस्यादेत्यपदे" [२. १. ११३.] इति "समानानाम् ०" [ १. २. १. ] इति च अकारलोप-दीर्घत्वयोः कृतयोरवर्णात् परत्वं शतृप्रत्ययस्य नास्ति तर कथमकाराऽवर्णशतृप्रत्ययङीभावापेक्षत्वेन बहिरङ्गोऽन्त इत्यादेश इत्याह-अवर्णादित्यादि । भूतपूर्वतयेति-वार्णात् प्राकृतं बलीयः इति तु नेहोपतिष्ठते, भिन्नकालत्वात्, तथाहि-ई-डयोः सद्भावेऽन्तादेश: प्राप्नोति, लोप दीघौं तु ततः प्रागेव, यत्र हि वार्ण-25 प्राकृतयोयुगपत् प्राप्ति: 'कारकः' इत्यादौ तत्रेदमुपतिष्ठत इति ।। २. १. ११५ ।।
श्य-शवः ॥ २. १. ११६ ॥ श्याच्छवश्च परस्यातुरी-ङयोः परतोऽन्त इत्यादेशो भवति । दीव्यन्ती