________________
[पा० १. सू० ६६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १६६
न्या० स०-राजन्वान् । सुराज्ञीति-शोभननृपतौ वाच्ये । यदा तु राजन्शब्देन चन्द्रोऽभिधीयते तदा राजवान देश इत्येव, निपातनस्येष्टविषयत्वात् ।। २. १. ६८ ।।
नोा दिभ्यः
॥ २. १. ६६ ॥
ऊर्मि इत्येवमादिभ्यो नामभ्यः परस्य मतोर्मकारस्य वकारादेशो न भवति । ऊर्मिमान्, दल्मिमान्, भूमिमान्, तिमिमान्, क्रिमिमान्, एभ्यो । मोपान्त्यत्वात् प्राप्ते ; यवमान्, क्रुञ्चामान्, द्राक्षामान्, ध्राङ्क्षामान्, वासामान्, एभ्योऽवर्णान्तत्वात् प्राप्ते; हरित्मान्, गरुत्मान्, ध्वजित्मान्, ककुद्मान्, एभ्योऽपञ्चमवर्गादिति प्राप्ते; ज्योतिष्मती, महिष्मान्, गोमती, कान्तिमती, शिम्बीमती, हरिमती, चारुमती, इक्षुमती, बन्धुमती, मधुमती, बिन्दुमती, इन्दुमती, द्रमती, वसुमती, अंशुमती, श्रमती, हनूमती, सानुमती, भानुमती; 10 एभ्यः “नाम्नि" [२. १. ६५.] इति प्राप्ते प्रतिषेधोऽयम् । ऊमि, दल्मि, भूमि, तिमि, कृमि, यव, क्रुञ्चा, द्राक्षा, ध्राङ्क्षा, वासा, हरित्, गरुत्, ध्वजित्, ककुद्, ज्योतिस्, महिष, गो, कान्ति, शिम्बी, हरि, चारु, इक्षु, बन्धु, मधु, बिन्दु, इन्दु, द्र, वसु, अंशु, श्रु, हनु, सानु, भानु, इत्यादिः । बहुवचनमाकृतिगणार्थम्, तेन यस्य सति निमित्ते मतोर्वत्वं न दृश्यते स 15 ऊर्यादिषु द्रष्टव्यः ।। ६६ ।।
- न्या० स०--नोादिभ्यः। दल्मिमानिति-दल्मिरिन्द्रः प्रहरणविशेषो वा, सोऽस्यास्ति। तिमिमान, क्रिमिमानिति-"क्रमि-तमि०" [उणा० ६१३.] इति द्वयोरपि निपातनम्, क्रिमि:-क्षुद्रजन्तुः, तिमिर्महामत्स्यः । गरुर -पिच्छं, तदस्यास्ति । ध्वजित्मानिति-अध्वानं जयति क्विप्, पृषोदरादिः। ककुमानिति-ककतेर्बाहुलकादुत्-20 प्रत्यये गणे द्विदकारपाठान्मतौ नानुनासिकः । महिष्मानिति--"नडकुमुद०" [६. २. ७४.] इति डिति मतौ प्रसिद्धं बहिरङ्गम् २ इत्यकारलोपस्यासिद्धत्वान्न "धुटस्तृतीयः" [ २. १.७६. ] न च वाच्यं “स्वरस्य परे०" [७. ४. ११०.] इति स्थानित्वं, तस्यासद्विधौ "न सन्धि०" [७. ४. १११.] इति निषेधात् । कान्तिमतीप्रभृति बन्धुमती यावत् सर्वेषु "नद्यां मतुः" [ ६. २. ७२. ] शिम्बोमती "डी-नी-बन्धि-शृधि०" [ उणा० ३२५. ]25 इति डिदिम्बः, गौरादिङोः। मधमतो "मध्वादेः" [६. २. ७३.] इति मतः। शोतोति क्विप् आगमशासनमनित्यम् । इति तागमाभावे-श्रुशब्दः । हनूमानिति-"अनजिरादि" [३. २. ७८.] इति दीर्घः ।। २. १. ६६ ।।
ग