________________
१६८ ]
बृहवृत्तिल वुन्याससंवलिते
[पा० १. सू० ६६-६८.]
10
चर्मण्वत्य-96ठीवच्-चक्रीवत्-कक्षीवद्-रुमण्वत्
॥ २. १. ६६ ॥ एते शब्दा मत्वन्ता नाम्नि विषये निपात्यन्ते । चर्मन्शब्दस्य नलोपाभावो णत्वं च निपात्यते--चर्मण्वती नाम नदी, अस्थिशब्दस्याष्ठीभावः-- अष्ठीवान् जङ्घोरुसंधिः, चक्रशब्दस्य चक्रीभावः-चक्रीवान् नाम गर्दभः, 5 चक्रीवान् नाम राजा, कक्ष्याशब्दस्य कक्षीभाव:--कक्षीवान् नाम ऋषिः, लवणशब्दस्य रुमण्भावः-रुमण्वान् नाम पर्वतः। अन्ये त्वाहुः--रुमन्निति प्रकृत्यन्तरमस्ति, तस्यैतन्निपातनं नकारलोपाभावार्थं गत्वार्थं च, वत्वं तु यथायोगमस्त्येव । नाम्नीत्येव-चर्मवती, अस्थिमान्, चक्रवान्, कक्ष्यावान्, लवणवान् ।। ६६ ।।
न्या० स०-चर्मण्वत्यष्ठीव०। कक्ष्याशब्दस्येति कक्षे भवा कक्षाय हिता वा कक्षे साधुर्वा “दिगादिदेहांशाद्य:०" [ ६. ३. १२४. ] इत्यादिभिर्ये-कक्ष्या ब्रह्मणः सादृश्यमुद्योगश्चेत्यर्थः । लवणस्येति-लुनाति वैरस्यं नन्द्याद्यनः, अतएव गणपाठाण्णत्वम् ।। २. १. ६६ ।।
उदन्वानन्धौ च ॥ २. १. ६७ ॥
आपो धीयन्तेऽस्मिन्नित्यब्धिः, अब्धौ नाम्नि चोदन्वानिति उदकशब्दस्य मतावुदन्भावो निपात्यते । उदन्वान् घटः, उदन्वान् मेघः, यस्मिन्नुदकं धीयते स एवमुच्यते; नाम्नि-उदन्वान् समुद्रः, उदन्वान् नाम ऋषिः, यस्यौदन्वतः पुत्रः; उदन्वान् नाम आश्रमः । अब्धौ चेति किम् ? उदकवान् घटः, अत्र घटस्योदकसम्बन्धमात्रं विविक्षितं, न दधातीत्यर्थः ।। ६७ ।।
20 न्या० स०-उदन्वान्। उदन्भावसामर्थ्यान्नलोपो न, अन्यथा उदभावो निपात्येत ।। २. १. ६७ ॥
राजम्वान् सुराज्ञि ॥ २. १. ६८ ॥
शोभनो राजा यस्य तस्मिन्नभिधेये राजन्वानिति मतौ नलोपाभावो निपात्यते । राजन्वान् देशः, राजन्वती पृथ्वी; राजन्वत्यः प्रजाः । सुराज्ञीति25 किम् ? राजवान् देशः ।। ६८ ।।
15