________________
१६० ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ६२.]
न्या० स०--मुह । चेलस्निक चेलं स्निह्यति-सिञ्चतीत्यर्थः, सेचनार्थत्वं त्वस्य "स्वस्नेहन०" [५. ४. ६५. ] इति सूत्रे स्निह्यतेऽनेनेति स्नेहनमुदकादीति दर्शनाद विज्ञायत इति । ननु किं मुहादयः स्वरूपेणोपादीयन्ते ? मुहादेरित्येवोच्यताम्, न चैवं कृतेऽधिकानां प्रसङ्गस्तदनन्तरं वृत्करणात्, तद्धि पुष्पादिवद् मुहादिपरिसमाप्त्यर्थमपि भविष्यतीत्याह-मुहादेरिति ।।२. १. ८४ ।।
नहा- होतौ ॥ २. १. ८५ ॥
नहेबॅगस्थानस्याहश्च धातोः संबन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च यथासंख्यं धकार-तकारावादेशौ भवतः । नद्धा, नत्स्यति, उपानत्, ' परीणत्, उपानद्भ्याम्, उपानत्कल्पः; आह -प्रात्थ, पाहेनियतविषयत्वात् पदान्तता नास्ति । धुट-पदान्त इत्येव-उपनह्यति, उपानहौ, उपानहः; आह,10 आहतुः, पाहुः। अाहेरादेशान्तरकरणम् “अधश्चतुर्थात् त-थोधः" [२. १. ७६.] इति थकारस्य धत्वनिवृत्त्यर्थम् ।। ८५ ॥
न्या० स०--नहाऽऽहो। ब्रस्थानस्येति-अन्यस्यासंभवात् । आत्थेतिनन्वाहेरपि धकारे "अघोषे प्रथम." [ १. ३. ५०. ] इति तकारे कृते 'पात्थ' इति सिध्यतीत्युभयोरपि धकार एव क्रियतां, किं तकारकरणेनेत्याह-आहेरादेशान्तरेत्यादि-न च15 सिवस्थविधानादेव धत्वं न भविष्यति, अन्यथा सिवो धत्वमेव विदध्यादिति वाच्यम्, यतो लाघवार्थं तद् भवे, अन्यथा 'ब्र गः पञ्चानाम्०" [४. २.११८.] इत्यत्र "सिवो धः" इति सूत्रान्तरे कृते गौरवं स्यात्, तस्मात् सूक्त-धत्वनिवृत्यर्थमिति ।। २. १. ८५ ॥
च-जा क-गम् ॥ २. १. ८६॥
चकार-जकारयोधुटि प्रत्यये परे पदान्ते च ककार-गकारावादेशौ20 भवतः । वक्ता, वक्त म्, वक्ष्यति, प्रोदनपक्, त्वक्, वाक्, वाग्भिः, वाक्त्वम् ; जः-त्यक्ता, त्यक्त म्, त्यक्ष्यति, अर्धभाग, स्वप्नग्, तृष्णक् । धुट्-पदान्त इत्येव-वच्मि, वाचौ, वाचः । प्रत्यय इत्येव-इच्छति, मज्जति । कथं तच्चुञ्चुः, तच्चरणः, तच्चरति ?, उच्यते-अत्र दस्य परत्वात् तृतीयत्वे पश्चाच्चवर्गत्वे प्रथमत्वम्, ततस्तृतीयस्य "च-जः क-गम्" [२. १. ८६.] इति परेऽसत्त्वेन25 च-जयोरभावात् कत्व-गत्वे न भवतः; अज्झलावित्यत्र तु संज्ञांशब्दत्वान्न भवति ।। ८६ ।।