SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते [ पा० १. सू० ६२. ] न्या० स० -- तादेशोऽषि । ककारेण उपलक्षितस्तः क्त इति व्युत्पत्तिकरणात् क्त क्तवतु-क्ति क्त्वानां ग्रहणं सिद्धं, ककारोपलक्षितस्य तकारस्य सर्वेष्वेषु विद्यमानत्वात् । परे कार्य इति - परत्वमेतत्सूत्रापेक्षं विज्ञायते, न क्तादेशविधायकसूत्रापेक्षम्, प्रतिषेधात् एतत्सूत्रापेक्षे हि परत्वे "यज-सृज०" [२. १. ८७.] इति षत्वमपि परम्, तस्मिन्नप्यसत्त्वे प्राप्त ऽपीति प्रतिषेधो युज्यते । क्षामिमानिति - क्षामस्यापत्यम् " प्रत इञ् " 5 [ ६. १. ३१. ] ततो मतुः यद्वा क्षामोऽस्यास्ति इन्, ततः क्षाम्यत्राऽस्ति मतुः । लून्युः, पून्युरिति-लूनं पूनं चेच्छति क्यन् " क्यनि" [ ४. ३. ११२. ] इति ईकारः, ततो ङस् ; यदापि लवनं- नूनिः, तामिच्छति या स्त्री क्यन् लूनीयतीत्यादिप्रक्रिया क्रियते, तदापि ग्रामणीशब्दवद् विशेषेण नित्यस्त्रीत्वाभावाद् " योऽनेकस्वरस्य" [२. १. ५६. ] इति यत्वे लून्यु:, पून्युरित्येव भवति यदा तु लुनिमिच्छति यः पुमान् इत्यादि क्रियते, तदा यो 10 निशब्दः स्त्रीलिङ्गः स ईदन्तो न भवति, यस्तु क्यन्नन्तः स ईदन्तः स न स्त्रीलिङ्ग इति “स्त्रोदृतः” [१. ४. २६. ] इत्यस्य प्राप्तिरेव नास्तीति यत्वे - लून्युः, पून्युरित्येव; यदा तु क्त्यन्तादेव ङस् तदा स्त्रिया ङितां वा [१.४. २८ ] इति दासि तत्पक्षे तु "ङित्यदिति" [१. ४. २३.] इत्येत्वे लून्या लूनेरिति रूपद्वयम् । ननु प्रषीति किमर्थं ? यतः षत्वरूपे परे कार्ये कर्त्तव्ये कादेशस्याऽसत्त्वं प्राप्तमनेन निषिध्यते तच्च 'परे कार्ये' इति भरणनान्न 15 प्राप्नोति णत्व - षत्वयोः पूर्वसूत्रे ग्रहरणादिति, सत्यम् - अत एव प्रतिषेधात् पूर्वत्र गत्वसहचरितं सप्तमपादनिद्दिष्टं षत्वं गृह्यते, तेन श्रद्राक्षीदित्यादि सिद्धम्, अन्यथा यदि पूर्वसूत्रे सामान्येन षत्वमङ्गीक्रियते तदाऽत्र "ष ढोः कस्सि" [२. १. ६२. ] इति परे कार्ये कर्त्तव्ये षत्वस्याऽसत्त्वात् कत्वं न स्यादिति । मग्न इति - " मस्जेः स:" [४ ४ ११०.] इति सस्य "नो व्यञ्जन० [ ४. २.४५ ] इति लुप् ।। २.१.६१ ।। " नः, 20 १७६ ] ष - ढोः कः सि ।। २. १. ६२ ।। षकार-ढकारयोः स्थाने सकारें परे ककार प्रादेशो भवति । पिष्पेक्ष्यति, पिपिक्षति; दृश् - अद्राक्षीत्; सृज् - प्रस्राक्षीत् ; यज् - प्रयाक्षीत् । ढ - लिह - लेक्ष्यति, लिलिक्षति; वह वक्ष्यति ; गुहौ - निघोक्ष्यति । सीति किम् ? पिनष्टि । 'असत् परे' इत्यधिकाराद् निघोक्ष्यतीत्यत्र ढस्थानस्य 25 ककारस्यासत्त्वाच्चतुर्थान्तलक्षण प्रादेश्वतुर्थी भवति ।। ६२ ।। न्या० स०--ष-ढोः कस्सि । निघोक्ष्यति स्यतिप्रत्यये गुणे "हो धुट्-पदान्ते" [ २. १८२. ] इति ढत्वे नित्यस्यापि कादेशस्य परेऽसत्त्वात् "ग-ड-द-बादे: ० [२. १७७.] इत्यादेश्चतुर्थत्वे ततोऽनेन कत्वं सिद्धम् । कश्चिच्छासेरपि सौ विकल्पेन ककार मिच्छति, तन्मते - शाक्षि, शास्सि ।। २. १. ६२ ।। 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy