________________
[पा० १. सू० ३६-३७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६३
अनक ॥ २. १. ३६ ॥
अन्वादेश इति निवृत्तं पृथग योगात, उत्तरार्थः । त्यदादिसम्बन्धिनि जञ्जनादौ स्यादौ परेऽग्वजित इदम् 'अद्' भवति । प्राभ्याम्, एभिः, प्राभिः; अस्मै, अस्यै; अस्मात्, अस्याः; अस्य, अस्याः; एषाम्, आसाम्; अस्मिन्, अस्याम् ; एषु, प्रासु। अनिगिति किम् ? इमकाभ्याम्, इमकेभ्यः, 5 इमकस्मै, इमिकस्यै, इमकेषाम् । तत्सम्बन्धिविज्ञानादिह न भवति-अतीदंभ्याम्, अतीदंसु, प्रियेदंभ्याम्, प्रियेदंसु; इह तु भवति-परमाभ्याम्, परमैभिः, परमभ्यः, परमास्मै, परमास्यै; परमास्मात्, परमास्याः; अत्र पूर्वोत्तरयोः पदयोः पूर्वं कार्ये कृते पश्चात् संधिकार्यम्, एतच्च "प्रातो नेन्द्रवरुणस्य" [७. ४. २६.] इत्यत्र ज्ञापयिष्यते । अभेदनिर्देशः सर्वादेशार्थः ।। ३६ ।। 10
न्या० स०--अनगिति । पृथग् योगादिति-पृथग् योगारम्भादिति, भावः अन्यथा साकोऽनकोऽप्यन्वादेशे पूर्वसूत्रेणेव सामान्यविधानेन सिद्धत्वात् सूत्रारम्भवैयर्थ्यमिति । . अन्वादेशनिवृत्तौ तत्सम्बद्धमवृत्त्यन्त इति च निवृत्तम् । ननु परमाभ्यामित्यादौ परा
दप्यदादेशात् समासे सति स्याद्युत्पत्तिसापेक्षत्वेन बहिरङ्गादन्तरङ्गे “अवर्णस्य." [ १. २. ६.] इत्येत्वे कृते इदम्रूपाभावाददादेशाभावः प्राप्नोतीत्याह-अत्रेति-किञ्च,15 परमैभिरित्यादिषु परमशब्दसम्बन्धिनाऽकारेण सह यदि एत्वलक्षण: संधिः प्रथममेव क्रियते तदा उभयस्थाने यः समुत्पद्यते स लभतेऽन्यतरव्यपदेशम् इति न्यायाद् यदा एकारस्य इदम्शब्दसम्बन्धिता तदा एकारेण सह इदमोऽत्वं स्यात्, ततः पूर्वस्य व्यञ्जनान्ततायामनिष्टरूपापत्तिः, यदा तु एत्वस्य इदम्सम्बन्धिता न भवति तदा एकारस्य स्थितिः स्यात्, इत्युभयथाप्यनिष्टापत्तिः । एतच्चेति-कथमाग्नेन्द्रमित्यत्र प्रयोगे आकाराद् इन्द्र-20 वरुणस्थस्य स्वरस्य वृद्धिर्न भवतीत्युक्तम्, ततश्च यदि पूर्वमेव सन्धिकार्यं स्यात् तदा निषेधोऽनेन व्यर्थ एवेत्यर्थः ।। २. १. ३६ ।।
टोस्यनः ।। २. १. ३७ ।।
त्यदादिसम्बन्धिनि टायामोसि च परेऽग्वजितस्येदमः स्थाने 'अन' इत्ययमादेशो भवति । अनेन, अनया; अनयोः स्वम्, अनयोनिधेहि; परमानेन,25 परमानयोः । त्यदादिसम्बन्धिविज्ञानादिह न भवति-प्रतीदमा, अतीदमोः, प्रियेदमा, प्रियेदमोः। अनक इत्येव-इमकेन, इमिकया; इमकयोः इमिकयोः ।। ३७ ॥