SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १६२ ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ३५.] शीलवन्ताविमको तिष्ठत इति-अत्रापि पूर्ववद् गम्यमानोऽन्वादेशः, अथो इत्यादि तु द्योतकत्वात् क्वापि प्रयुज्यते क्वापि न । अयं दण्डो हरानेनेति-अत्र ह्यनुवादमात्रमेव न तु निभाल्यतामित्यादि विधीयते । केचित त्विति-पाणिनिप्रतियः। अथो एनं परिवर्तयेत्येव भवति न तु कुण्डशब्दस्य नपुंसकस्य विशेषणत्व एनदिति ।। ३४ ॥ . अद् व्यञ्ज ने ॥२.१.३५ ॥ 5 इदम इति षष्ठयन्तमपि सर्वादेशार्थं प्रथमान्ततयेह विपरिणम्यते, त्यदादिसम्बन्धीदम्शब्दो व्यञ्जनादौ स्यादौ परेऽन्वादेशे गम्यमानेऽद् भवति, अवृत्त्यन्ते, तकार उच्चारणार्थः । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम्, इमकैः शैक्षकैः रात्रिरधीता अथो एभिरहरप्यधीतम्, एवम्-इमकस्मै अथो अस्मै, इमिकस्यै अथो अस्यै, इमकस्मादथो अस्मात्,10 इमकस्याथो अस्य, इमकेषामथो एषाम्, इमिकस्मिन्नथो अस्मिन्, इमकस्यामथो अस्याम्, इमकेषु अथो एषु, इमिकासु अथो आसु । सौ तु परत्वादयमाद्यादेशः अथो अयं शीलवान् । केचिदेतदोऽपीच्छन्तिएताभ्यां छात्राभ्यां रात्रिरधीता अथो प्राभ्यामहरप्यधीतम्, एवम्-एतैः, एभिः, एतस्मै, अस्मै; इत्यादि । अन्वादेश इत्येव-इमकस्मै देहि । अवृत्त्यन्त इत्येव-अथो परमेमकाभ्यां रात्रि-15 रधीता। व्यञ्जन इति किम् ? अथो इमके तिष्ठन्ति । उत्तरत्र “अनक्" [२. १. ३६.] इति वचनादिह साक एव विधिः ।। ३५ ।। न्या० स०--अद् व्यञ्जने इति-तकार उच्चारणार्थः, अन्यथा सौ “सो रुः" [ २. १. ७२.] इत्यादौ कृते 'नो' इत्यनिष्टं रूपं स्यात् । प्रथमान्ततयेह विपरिणम्यत इति-अत एव कार्यो निमित्त कार्यमिति निर्देशक्रमे प्राप्ते निमित्तात् पूर्व कार्यनिर्देशः,20 उत्तरत्र "अनक" [ २. १. ३६. ] इति प्रथमान्तविशेषणोपादानाद् वा । शैक्षकाभ्यामितिशिक्षेते इति शिक्षको, ततः स्वार्थे प्रज्ञाद्यण ; शिक्षणं शिक्षा "क्त टो गुरो०" [५.३.१०६.] इत्यप्रत्ययः, ततः शिक्षां वित्तोऽधीयाते वा "पदक्रम-शिक्षा." |६.२.१२६.] इत्यकः, ततः शिक्षकावेव प्रज्ञाद्यण ; अथवा शिक्षायां भवौ "शिक्षादेश्चारण" [ ६. ३. १४८. ] इत्यणि ततो यावादित्वात् कः । अथ सावपि व्यञ्जनादित्वात्25 कथं नायमादेश इत्याह-सौ तु परत्वादिति । केचिदिति-चान्द्र-भोज-क्षीरस्वामिप्रभृतयः । साक एव विधिरिति-विश्रान्तादौ-अन्वादेशे साको निरकश्चादादेशविधानादिहैवमपि व्याख्या-साको यद्यादेशस्तदाऽन्वादेश एवेति निरकोऽन्वादेशेऽनन्वादेशे चोत्तरेणादादेशः सिद्धः ।। २.१.३५ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy