________________
१६० ]
बृहद्वृत्ति-लधुन्याससंवलिते
[पा० १. सू० ३३.]
सह-विद्यमानं पूर्वपदं यस्मात् "एकार्थं च." [३. १. २२.] इति समासः। प्रथमान्ताद् वेति-प्रथमायाः प्रत्ययत्वात् "प्रत्ययः प्रकृत्यादेः" [७. ४. ११५.] इत्यादिनाऽन्तस्य लब्धत्वादन्तग्रहणं न्यायानुवादार्थमिति । धनवानसीत्यादि-अत्र अन्येन कथनमन्वादेश:, यतो धनवानसीत्यस्मिन्नन्वादेशदर्शके वाक्यान्तरे प्रथममसीत्यूक्तम्, अथो ग्रामे कम्बलस्ते स्वमित्यत्र तु ते इत्युक्तम् । गम्येऽप्यन्वादेशे भवतीति-यूयं धनवन्त इत्यादिपदोपादाने 5 हि साक्षादन्वादेशो भवति, 'अथो' इत्यादेस्तु द्योतकमात्रस्योपादाने गम्य एव । 'माणवक ! जटिलक ! ते स्वमथो' इत्यादौ तु विशेषणपदस्य जटिलक ! इत्यस्य । “असदिवा०" [२. १. २५.] इत्यसत्त्वम्, माणवक ! इत्यस्य तु विशेष्यपदस्य "असदिवामन्त्र्यम् ०" [२. १. २५.] इति नाऽसद्वत्त्वम्, “नान्यद् [२. १. २८.] इति प्रतिषेधात् ।। ३२ ॥
त्यदामेनदेतदो द्वितीया-टौस्यवृत्यन्ते ॥ २. १. ३३ ॥ 10
त्यदादीनां सम्बन्धिन एतदित्यस्य द्वितीयायां टायामोसि च परेऽन्वादेशे 'एनद्' इत्ययमादेशो भवति, अवृत्त्यन्ते-न चेदयमेतच्छब्दो वृत्तेरन्ते भवति । द्वितीया-उद्दिष्टमेतदध्ययनमथो एनदनुजानीत; एतकं साधुमावश्यकमध्यापयाथो एनमेव सूत्राणि, अत्र साकोऽप्यादेशः; सुशीलावेतौ तदेनौ गुरवो. मानयन्ति, सुस्थिता एते तदेनान् देवा अपि नमस्यन्ति ; टा-एतेन रात्रिरधीता15 अथो एनेनाहरप्यधीतम् ; अोस्-एतयोः शोभनं शीलमथो एनयोर्महती कीत्तिः, सर्वाणि शास्त्राणि ज्ञातवन्तावेतौ अथो एनयोस्तिष्ठतो न्यः पूजार्हः । त्यदामिति किम् ? एतदं संगृहाण अथो एतदमध्यापय, संज्ञायामसर्वादित्वादत्यदादिः । अवृत्त्यन्त इति किम् ? अथो परमैतं पश्य । अन्तग्रहणं किम् ? एनच्छितकः, अत्रार्थात् प्रकरणाद् वाऽपेक्ष्ये निर्माते सति समासोऽन्वादेशश्च । 20 द्वितीया-टौसीति किम् ? एते मेधाविनो विनीता अथो एते शास्रस्य पात्रम्, एताभ्यां रात्रिरधीता अथो एताभ्यामहरप्यधीतम्, एतस्मै सूत्रं देहि, अथो एतस्मै अनुयोगमपि देहि; अभ्युदय-निःश्रेयसपदमेतच्छासनमथो एतस्मै नमो भगवते । अन्वादेश इत्येव-जिनदत्तमध्यापय एतं च गुरुदत्तम्, न पश्चात् कथनमात्रमन्वादेशः । यत्रापि वस्तुमात्रनिर्देशं कृत्वा विधानं क्रियते तत्रापि न25 भवति
[ईषदर्थे क्रियायोगे, मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्, [वाक्य-स्मरणयोरङित् ॥ ३३ ।।