________________
[पा० १. सू० ३२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १५६
तस्यैव कथनं यदि भवति तदैवान्वादेशः, नह्यन्यस्य कथने पुनःशब्दार्थो घटते, तेन यत्रान्यस्य. कथनं तत्र नान्वादेशः, ततश्च जिनदत्तमध्यापय, एतं च गुरुदत्तमित्यत्र तस्यैव जिनदत्तस्य पुनः कथनाभावादन्वादेशाभावात् “त्यदामेनद्०" [२. १. ३३.] इत्यनेन एनदादेशो न भवति । यूयं विनीता इति-अन्वादेशदर्शनार्थं वाक्यान्तरमिदमुपदर्शितम्, न तूत्तरपदंसम्बद्धं बोधव्यम्, तेन तदित्यस्य पदस्य सपूर्वत्वाभावादुत्तरेण न विकल्पः, तदित्यव्ययं तस्मादित्यर्थे, 5 विनीततामात्रमत्रानूद्यते नापूर्व किञ्चिद् विधीयते, यूयं विनीता इति प्रथमादेश उत्तरस्यान्वादेशख्यापनार्थम्, विनीता इति विनीतत्वं प्रतिपादयितु यूयमित्युक्तम् । तद् वो गुरवो मानयन्तीति-अयमन्वादेशः, यूयमिति यत् प्रथममुक्त तस्यैव च गुरवो मानयन्तीति प्रतिपादयितु द्वितीयं कथनम्, तत्र वसादेशः, एवं सर्वत्र ।। ३१ ।।
सपूर्वात् प्रथमान्ताद् वा ॥ २. १. ३२ ॥
10 विद्यमानपूर्वपदात् प्रथमान्तात पदात् परयोयुष्मदस्मदोरन्वादेशे वस्नसादय आदेशा वा भवन्ति । यूयं विनीतास्तद् गुरवो वो मानयन्ति, तद् गुरवो युष्मान् मानयन्ति; वयं विनीतास्तद् गुरवो नो मानयन्ति, तद् गुरवोऽस्मान् मानयन्ति ; युवां सुशीलौ तज्ज्ञानं वा दीयते, तज्ज्ञानं युवाभ्यां दीयते; आवां सुशीलौ तज्ज्ञानं नौ दीयते, तज्ज्ञानमावाभ्यां दीयते; सुशील-15 स्त्वमथो क्षमाश्रमणास्ते ज्ञानं प्रयच्छन्ति, अथो क्षमाश्रमणास्तुभ्यं ज्ञानं प्रयच्छन्ति; सुशीलोऽहमथो क्षमाश्रमणा मे ज्ञानं प्रयच्छन्ति, अथो क्षमाश्रमणा मह्य ज्ञानं प्रयच्छन्ति ; धनवानसि अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्तव स्वम् ; धनवानहमथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम् ; धनवांस्त्वं तल्लोकस्त्वा पूजयति, तल्लोकस्त्वां पूजयति ; 20 धनवानहं तल्लोको मा पूजयति, तल्लोको मां पूजयति । गम्येऽप्यन्वादेशे भवति-ग्रामे कम्बलो वः स्वमथो, ग्रामे कम्बलो युष्माकं स्वमथो इत्यादि । सपूर्वादिति किम् ? पटो युष्माकं स्वम्, अथो वः कम्बलः स्वम् । प्रथमान्तादिति किम् ? पटो नगरे युष्माकं स्वम्, अथो कम्बलो ग्रामे वः स्वम् । 'माणवक ! जटिलक ! ते स्वमथो इत्यादौ तु विशेषणपदस्य "असदिवा-25 मन्त्र्यं पूर्वम्" [२. १. २५.] इत्यसद्वद्भावात् नास्ति सपूर्वप्रथमान्तमिति न भवत्येव विकल्पः । पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम् ।। ३२ ।।
न्या० स०-सपूर्वादित्यादि । सहशब्दो विद्यमानवचनः, पूर्वशब्दो व्यवस्थार्थः,