________________
१५६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० २८.]
शेषणभूते परेऽसदिव न भवति । साधो ! सुविहित ! त्वा शरणं प्रपद्ये । साधू ! सुविहितौ ! वां शरणं प्रपद्ये । साधो ! सुविहित ! मा रक्ष । साधू ! सुविहितौ नौ रक्षतम् । साधो ! सुविहित ! ते ज्ञानं दीयते । मे ज्ञानं दीयताम् । साधू ! सुविहितौ ! वां ज्ञानं दीयते । नौ ज्ञानं दीयताम् । साधो ! सुविहित ! ते शीलं स्वम् । मे शीलं स्वम् । साधू ! सुविहितौ ! वा शीलं स्वम् । नौ शीलं 5 स्वम् ; अत्र परस्य "असदिवामन्त्र्यं पूर्वम्" [२. १. २५.] इत्यसत्त्वेऽपि पूर्वविशेष्यपदाश्रया युष्मदस्मदादेशा भवन्ति । विशेष्यमित्येव-सुविहित ! तव शीलं, मम शीलम् ।। २७ ।।
१.२६. ] इत्यस्य प्रधान
न्या० स०--नान्यदिति। "जस विशेष्यम तयाऽन्यदिति सम्बध्यते-इत्याह-जसन्तादिति ।। २७ ॥
10
पादाद्योः ॥ २. १. २८ ॥ .
नियतपरिमाणमात्राक्षरपिण्डः पादः, पदात् परयोर्युष्मदस्मदोर्यदुक्त . वस्नसादि तत् पादस्यादिभूतयोर्न भवति ।
"वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता।
स एव नाथो भगवानस्माकं पापनाशनः" ।। १ ॥ 15 पादाद्योरिति द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम्, पादादाविति ह्य च्यमाने आमन्त्रमभिसम्बध्येत । पादाद्योरिति किम् ?
"पान्तु वो देशनाकाले, जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातोद्धरणरज्जवः" ।। २ ।। २८ ।।
न्या० स०-पादा० इत्यादि । मात्राश्च अक्षराणि च मात्राक्षराणि, नियतपरि-20 माणानि च तानि मात्राक्षराणि च तेषां पिण्डः, यद्वा मात्राक्षराणां पिण्डः २, नियतपरिमाणश्चासौ मात्राक्षरपिण्डश्च २ । पादादाविति ह्य च्यमाने इति-पादादावित्यस्यान्त्र्याभिसम्बन्धे किं स्यात् ?
"जिनेश ! त्वां नमस्कृत्य, यन्नरो मुक्तिमिच्छति । अतो नरसुराधीशस्तुत्यस्तोत्रं त्वमर्हसि" ।। १ ।।
25