SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० २७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १५५ पूर्वं जसन्तमामन्त्र्यं पदं विशेष्यमामन्त्र्ये पदे सामर्थ्यात् तद्विशेषणभूते परेऽसदिव वा भवति, पूर्वेण नित्यं प्राप्ते विकल्पः । जिनाः ! शरण्या ! युष्मान् शरणं प्रपद्ये । जिनाः ! शरण्या ! वः शरणं प्रपद्ये। जिनाः ! शरण्या ! अस्मान् रक्षत । जिनाः ! शरण्या ! नो रक्षत । सिद्धाः ! शरण्या ! युष्मानथो शरणं प्रपद्ये । सिद्धाः शरण्या ! वोऽथो शरणं प्रपद्ये । 5 सिद्धाः ! शरण्या अस्मानथो रक्षत । सिद्धाः ! शरण्या ! नोऽथो रक्षत । जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये, साधो ! सुविहित ! नोऽथो रक्ष । विशेष्यमिति किम् ? शरण्याः ! साधवो ! युष्मान् शरणं प्रपद्ये, शरण्याः ! साधवोऽस्मान् रक्षत । आमन्त्र्य इति किम् ? प्राचार्या ! युष्मान् शरण्याः ! शरणं प्रपद्ये, अत्रामन्त्र्यं विशेषणं व्यवहितत्वाद् न परमिति न10 भवति । सामर्थ्यात् तद्विशेषणभूत इति किम् ? प्राचार्या ! उपाध्याया ! युष्मान् शरणं प्रपद्ये ।। २६ ।। न्या० स०--जस्वि० इत्यादि। तदतद्विषयमिति-शब्दप्रधानत्वात् स्याद्वादाश्रयणेन शब्दार्थयोरैक्याद् वाऽर्थाभावे त्यदादित्वाभावात् तच्छब्दावयवयोगात् समुदायोऽपि तद् इत्यादि कृत्वा कर्मधारयकरणात् बाहुलकाद् वा नैकशेषः, तच्च अतच्च तदतदी,15 द्वन्द्व "पा द्वरः" [२. १. ४१.] इति न “न सर्वादि:" [ १. ४. १२. ] इति निषेधात् । सामर्थ्यात् तद्विशेषगभूत इति । विशेष्यस्य विशेषणाकाङ क्षिण एकवाक्योपात्तत्वेन सामर्थ्यात् सन्निहितत्वाद् विशेष्यत्वनिमित्तमामन्त्र्य इत्येतदेव विशेषणं विज्ञायत इति । जिनाः ! शरण्या इत्यत्र शरणमिति सामान्यकर्म, युष्मानिति विशेषकर्म । सिद्धाः ! शरण्या ! युष्मानथो शरणं प्रपद्य इत्यादौ “सपूर्वात्०" [२. १. ३२.] इत्यादिना वा20 वस्नसौ प्राप्तावपि "अस दिवा०" [ २. १. २५. ] इत्यनेन निषिद्धौ पुनरऽनेन विकल्प्येते । जसिति किम् ? साधो ! सुविहितेति-अत्र द्वयोरपि पदयो: "असदिवा०" [२. १. २५.] इत्यसत्त्वे प्राप्ते "नान्यत्" [ २. १. २७. ] इत्यनेन साधो ! इत्यस्यासत्त्वाभावः, “नित्यमन्वादेशे" [२. १.३१. ] इत्यनेन च वस्नसौ। शरण्या! साधवो! युष्मानिति-पत्र द्वयोरपि "असदिवा०" [ २. १. २५. ] इत्यसद्वद्भावः । प्राचार्या ! युष्मान् शरण्या ! 25 इति-अत्रामन्त्र्यस्य विशेष्यस्य व्यवहितत्वेन परत्रोपश्लेषाभावान्न भवति । आचार्या ! उपाध्याया! इति-अत्र भिन्नाधिकरणयोः पदयोन पूर्व विशेष्यं न परं विशेषणमिति 'सामर्थ्यात् तद्विशेषणभूते” इति भणनान्न भवति ।। २६ ।। नान्यत् ॥ २. १. २७ ।। युष्मदस्मद्भ्यां पूर्वं जसन्तादन्यदामन्त्र्यं पदं विशेष्यमामन्त्र्ये पदे तद्वि-30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy