SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४२ ] बृहत्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ८.] इत्येतेषु स्यादिषु परेषु यकारोऽन्तादेशो भवति । (टा-) त्वया, मया; अतित्वया, अतिमया; अतियुवया, अत्यावया; अतियुष्मया, अत्यस्मया; (ङि-) त्वयि, मयि; अतित्वयि, अतिमयि; प्रिययुवयि, प्रियावयि; प्रिययुष्मयि, प्रियास्मयि; (प्रोस्-) युवयोः, आवयोः; अतियुवयोः, अत्यावयोः; अतित्वयोः, अतिमयोः; अतियुष्मयोः, अत्यस्मयोः । टाङयोसीति किम् ? 5 त्वत्, मत् । लुगपवादौ योगी ।। ७ ।। न्या० स०-टाङयो० इत्यादि-पोश्च अोश्च-प्रोसौ "स्यादावसंख्येयः" [ ३. १.. ११६. ] इत्येकशेषः, ततः टाश्च ङिश्च प्रोसौ च इति कार्य्यम्, तेन षष्ठी-सप्तम्योरपि ग्रहः, अन्यथा डिना साहचर्यात् सप्तम्या एव प्रोसो ग्रहणं स्यात् । नन्वत्र प्रोस्ग्रहरणाभावेऽपि "शेषे लुक्' [ २. १. ८. ] इति दलोपे “एद् बहुस्भोसि" [ १. ४. ४. ] इत्यनेन 10 एत्वे "एदैतोऽयाय" [ १. २. २३. ] इत्ययादेशे च 'अतियुवयोः' इत्यादि सिध्यति, सत्यम्-णिच्यन्त्यस्वरादिलोपे युवा-वादेशे "शेषे लुक्" [२. १. ८. ] इत्यकारलोपे अकारस्याभावाद् 'युव्योः" इत्यादौ यत्वं न सिध्यतीति अोस्ग्रहणम् ।। ७ ।। शेषे लुक ॥ २. १.८॥ यस्मिन् प्रत्यये प्रात्व-यकारौ विहितौ ततोऽन्यः शेषः, तस्मिन् स्यादौ15 परे युष्मदस्मदोरन्तस्य लुग् भवति । युष्मभ्यम्, अस्मभ्यम्; अतियुष्मभ्यम्, अत्यस्मभ्यम् ; त्वद्, मद्; अतित्वद्, अतिमद्; युष्मद्, अस्मद्; अतियुष्मद्, अत्यस्मद्; युष्माकम्, अस्माकम्; अतियुष्माकम्, अत्यस्माकम् । “अलिङ्ग युष्मदस्मदी" इति अन्तलोपे स्त्रियामा' न भवति । शेष इति किम् ? त्वयि, मयि ।। ८ ॥ 20 न्या० स०--शेषे इत्यादि-शेषग्रहणाभावे टाङ्योसीत्यधिकार आगच्छे, न च वाच्यम्-टायोसीत्यधिकारो यद्यभिप्रेतः स्यात् तदा "टायोसि य-लुकौ" इत्येकमेव कुर्यात्, यतो 'लुग्' इति उत्तरार्थं पृथक्करणं कर्तव्यमेव, अन्यथा "टाङ योसि य-लुकौ" इत्यधिकारोऽग्रेतनेऽपि सूत्रे गच्छेदित्याशङ्कायां शेषग्रहणम् । स्त्रियामाप न भविष्यतीतिकेवलयोयुष्मदस्मदो: “नन्ता सङ्खया०" [ लि. परलि० ४ ] इति लक्षणेनालिङ्गत्व-25 भणनात् । अथ बहुव्रीही तत्पुरुषे च अन्यपदार्थादिप्रधानत्वेन युष्मदस्मदन्तस्य स्त्रीत्वे आप कथं न भवति ? उच्यते-सन्निपात०* लक्षणन्यायाद् दलोपोऽभ्यमः सन्निधानव्यवधाने न निमित्तम्, तर्हि 'युष्मभ्यम्' इत्यादिषु केवलेष्वपि अत एव न्यायाद् आप् न
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy