SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते कोऽर्थः ? प्रकृष्टत्वादित्यर्थः प्रकृष्टत्वं च श्रागमात् सर्वादेशः इति न्यायात्; किञ्च, "ऋतो रः स्वरेऽनि" २. १. २. ] इत्यत्रानीति वचनमनर्थकं स्यात्, स्वरादौ पूर्वं नकारे तिस्राद्यादेशाभावाद् रत्वप्रसङ्ग एव नास्तीति अनीति वचनात् पूर्वं नागमादेस्तिस्राद्यादेश इति प्रियतिसृ कुलमिति । "नामिनो लुग् वा " [ १. ४. ६१. ] इत्यत्र चतुशब्दस्यापि लुग्विकल्पमिच्छन्त्येके, तन्मते - प्रियचतसृ कुलम्, प्रियचतुर्वा 5 कुलमिति । प्रियत्रिरित्यादि - स्त्रीलिङ्गविवक्षायामपि समासाद् ङीप्रत्यये प्रियत्र्येव, "शेषाद् वा " [ ८. ३. १७५. ] इति कचि प्रियत्रिकैव, प्रादेशो न भवति, प्रथमं ङीप्रत्यये पश्चाद्बहुव्रीहिसमासे "ऋन्नित्यदितः " [ ७. ३. १७१ ] इति कचेव, यदा तु केवलात् त्रिशब्दाद् ङीस्तदा तु एकदेशविकृतत्वेनादेशो भवति । कथं तिसृका नामेति - त्रिशब्दात् संज्ञायां के आपि बहुवचने च स्यादेर्व्यवधानात् कथं तिसृभाव इति प्रष्टुः संशय: 110 समाधत्ते - स्त्रीलिङ्गो बहुवचनविषयः संज्ञाशब्दोऽयमिति तस्यन्ति परबलान्यासु “निष्कतुरुष्क० " [ उणा० २६ ] इति निपात्यते ॥ १ ॥ ऋतो रः स्वरेsनि ।। २.१.२ ॥ तिसृ - चतसृसम्बन्धिन ऋकारस्य स्थाने तत्सम्बन्धिन्यन्यसम्बन्धिनि वा स्वरादौ स्यादौ परतो रादेशो भवति, अनि - नकारविषयादन्यत्र समान - 15 दीर्घत्वा-ऽर्बुरामपवादः । तिस्रः, चतस्रस्तिष्ठन्ति पश्य वा ; प्रियतिस्रौ, प्रियचतस्रौ प्रियतिस्रम्, प्रियचतस्रम् प्रियतिस्रः प्रियचतत्र आगतं स्वं वा; प्रियतिस्त्रि प्रियचतस्त्रि निधेहि । स्वर इति किम् ? तिसृभिः चतसृभिः । अनीति किम् ? प्रियतिसृणी, प्रियचतसृणी; प्रियतिसृरिण, प्रियचतसृणि; तिसृणाम्, चतसृणाम् । ऋत इति तिसृ- चतस्रोः प्रतिपत्त्यर्थम् इतरथा हि20 तदपवादस्त्रिचतुरोरेवायमादेशो विज्ञायेत । अन्ये तूपसर्जनयोस्तिसृ- चतसृशब्दयोङौं घुटि चानि स्वरादौ रत्वविकल्पमिच्छन्ति, तन्मते - प्रियतिस्रि प्रियतिसरि प्रियचतस्त्रि, प्रियचतसरि प्रियतिस्रौ, प्रियतिसरौ; प्रियचतस्रौ, प्रियचतसरौ; प्रियतिस्रः प्रियतिसरः; प्रियचतस्रः प्रियचतसरः; प्रियतिस्रम्, प्रियतिसरम्; प्रियचतस्रम्, प्रियचतसरम्; प्रधानस्य तु नित्यमेव 25 रत्वम् - तिस्रः, परमतिस्रः; चतस्रः, परमचतस्रः । अपरे त्वनि स्वरे सर्वत्र विकल्पं जश्- शसोस्तु नित्यं मन्यन्ते, तन्मते - प्रियतिस्रौ, प्रियतिसरौ; प्रियचतस्रौ, प्रियचतसरौ; प्रियतिस्रः प्रियतिसुः प्रियचतस्रः, प्रियचतसुः प्रागतं " स्वं वा, इत्यादि । जस्-शसोस्तु - तिस्रः, चतस्रः, परमतिस्रः, परमचतस्रः, १३८ ] " " [ पा० १. सू० २. ]
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy