________________
१३६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६३.]
करणात्, स्त्रियां वर्तमानस्य क्रुशः परस्य तुनस्तृजादेशो भवति, निनिमित्त एव । क्रोष्ट्री, अत्र प्रागेव तृजादेशे ऋदन्तत्वाद् ङीः; क्रोष्ट्रयौ, क्रोष्ट्रयः, क्रोष्ट्रीम्, क्रोष्ट्रया, क्रोष्ट्रीभ्याम्, हे क्रोष्ट्रि ! । पञ्चभिः क्रोष्ट्रीभिः क्रीतैरिति विगृह्य "मूल्यैः क्रीते" [६. ४. १५०.] इतीकण , तस्य "अनाम्न्यद्विः प्लुप्" [६. ४. १४१.] इति लुपि "ड्यादेगौंणस्या०" [२. ४. ६५.] 5 इत्यादिना डीनिवृत्तौ पञ्चक्रोष्टभी रथैः, अत्र निनिमित्तत्वादादेशस्य डीनिवृत्तावपि निवृत्तिर्न भवति, अत एव च "क्यङ्भानिपित्तद्धिते" [३. २. ५०.] इति पुंवद्भावो न भवति, पुंवद्भावेनापि हि आदेश एव . निवर्तनीयः, स च निमित्तत्वाश्रयणेन डीनिवृत्तावपि निवर्तते एव ।। ६३ ॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु- 10 शासनवृत्तौ प्रथमस्याध्यायस्य चतुर्थः पादः ।। ४ ।। ग्रन्थाग्र० ५७३ ।। सोत्कण्ठमङ्गलगनैः कचकर्षणैश्च,
वक्त्राब्जचुम्बननखक्षतकर्मभिश्च । श्रीमूलराजहतभूपतिभिविलेसुः,
संख्येऽपि खेऽपि च शिवाश्च सुरस्त्रियश्च ।। १ ।। 15 समाप्तोऽयं बृहद्वत्तौ प्रथमोऽध्यायः ॥ १।। न्या० स०-स्त्रियामिति-"स्त्रियां च" इत्येकयोगेऽपि "स्त्रियां च" इत्यसमस्तनिर्देशस्येदं फलम्-यत् 'स्त्रियाम्' इत्युत्तरसूत्रे याति, अन्यथा "पु-स्त्रियोः' इत्येव कुर्यात् । निनिमित्त एवेति-ननु निमित्तत्वाश्रयणे ऋकारान्तत्वाभावात् क्रोष्टुशब्दस्य कथं ङी: स्यात् ? सत्यम्-गौरादौ पाठात् डी: स्यादेवेति ङीसिद्धिः, परं निमित्त-20 व्याख्यायां "स्त्रियां ड्याम्" इति सूत्रं कुर्यात् ।। ६३ ॥
इति प्रथमस्याध्यायस्य चतुर्थः पादः ।। ४ ।।
इति प्रथमाध्यायः समाप्तः ।। Medic प्रथमोऽध्यायः समाप्तः ॥