SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ५३-५४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ११७ - न्या० स०--वाष्टन इत्यादि । पूर्वसूत्राद् ङरनुवृत्तिर्मा भूदिति स्यादिग्रहणम् । अथ "अष्ट प्रौर्जस्-शसोः" [१. ४. ५३.] इत्यत्र 'अष्ट:' इति ज्ञापकाद् ङरनुवृत्तिर्न भविष्यति, सत्यम्-तद्धि मतान्तरसंग्रहार्थम् ।। ५२ ।। अष्ट औजस-शसोः ॥ १. ४. ५३ ॥ अष्ट इति कृतात्वस्याष्टन्शब्दस्य निर्देशः, अष्टाशब्दसम्बन्धिनोर्जस्- 5 शसोः स्थाने औकारादेशो भवति । अष्टौ तिष्ठन्ति, अष्टौ पश्य, परमाष्टौ, अनष्टौ । कृतात्वस्य निर्देशादिह न भवति-अष्ट तिष्ठन्ति, अष्ट पश्य, परमाष्ट, अनष्ट । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियाष्टास्तिष्ठन्ति, प्रियाष्टः पश्य । अतत्सम्बन्धिनोरपीच्छन्त्येके-प्रियाष्टौ तिष्ठन्ति, प्रियाष्टौ पश्य । केचित् तु-अष्टावाचक्षत इति णिचि क्विपि 'अष्टौ तिष्ठन्ति, अष्टौ10 पश्य' इतीच्छन्ति, तदप्यष्ट इति तन्त्रेण संगृहीतम् ॥ ५३ ॥ - डति-ष्णः संख्याया लम् ॥ १. ४. ५४ ॥ डति-षकार-नकारान्तायाः संख्यायाः सम्बन्धिनोर्जस्-शसोलुप भवति । कति तिष्ठन्ति, कति पश्य; यति तिष्ठन्ति, यति पश्य ; तति तिष्ठन्ति, तति पश्य ; षट् तिष्ठन्ति, षट् पश्य; पञ्च तिष्ठन्ति, पञ्च पश्य; एवम्-सप्त,15 नव, दश; परमषट्, परमपञ्च । डति-ष्ण इति किम् ? त्रयः, चत्वारः, तावन्तः । शतानि सहस्राणीत्यत्र सन्निपातलक्षणत्वात् नान्तस्य न भवति । संख्याया इति किम् ? विषः, राजानः । तत्सम्बन्धिविज्ञानादिह न भवतिप्रियकतयस्तिष्ठन्ति, प्रियकतीन् पश्य; प्रियषषः; प्रियषषः; प्रियपञ्चानः, प्रियपञ्चः । केचित् तु डत्यन्तात् कतिशब्दादेवेच्छन्ति ।। ५४ ।। 20 न्या० स०-डतिष्ण इत्यादि । सन्निपातलक्षणत्वादिति-संनिपतति कार्यमस्मिन् संनिपातो निमित्तं शिलक्षणम्, स लक्षणं चिह्न यस्य तस्य । केचित् त्विति-वामनादयः, तन्मते इदं न सिद्धचति यति ते नाग ! शीर्षाणि, तति ते नाग ! वेदनाः । न सन्ति नाग! शीर्षारिण, न सन्ति नाग! वेदनाः ।। ५४ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy