________________
११६ ]
बृहवृत्ति-लघुन्याससंवलिते
पा० ४. सू० ५१-५२.]
व्यहनि, व्यह्न । संख्यासाय-वेरिति किम् ? मध्याह्न। अह्नस्येति किम् ? द्वयोरह्नोः समाहारो द्वयहस्तस्मिन् द्वयहे। ङाविति किम् ? व्यह्नः ।।५।।
न्या० स०-संख्या-सायेत्यादि । अण विषये इति-द्वयोरहोर्भवः “संख्या समाहारे च०" [३. १. ६६.] इति तद्धितविषये द्विगुसमासेऽण विषयेऽटि प्रह्लादेशः, शाकटायनस्तु “वर्षाकालेभ्यः" [ ६. ३. ८०. ] इति इकण प्रत्ययविषयेऽट्प्रत्ययमिच्छति, स्वमते । तु न 'द्वयह्न' इत्यस्याकालवाचित्वात् । यावदह्नि इत्यादिषु दुसंज्ञकेषु "दोरीयः" [६. ३. ३२.] विषयेऽटि तत ईयः; तस्य च "द्विगोरनपत्ये." [ ६. १. २४. ] इति लुक् । द्वघहे इति-"द्विगोरनह्न" [७. ३. ३६.] इत्यत्र अहन्ग्रहणात् ज्ञापकात् "सर्वांश०" [७. ३. ११८.] इति परमप्यटं बाधित्वा "द्विगोरहन्न होऽट्" [ ७. ३. ६६. ] . इत्यट् ततोऽह्नाभावः ।। ५० ॥
निय आम् ॥ १. ४. ५१. ।।
नियः परस्य डे: स्थाने 'आम्' इत्ययमादेशो भवति । नियाम्, ग्रामण्याम् ॥ ५१ ।।
न्या० स०-निय इत्यादि। ननु प्रामण्यामित्यत्र नी साक्षान्नास्ति किन्तु णी इत्यामो न प्राप्तिः, सत्यम्-स्यादिविधौ गत्वमसिद्धम् । अस्यामः “आमो नाम् वा"15 [१. ४. ३१.] इति नामादेशो न भवति, तत्र नित्यस्त्रीदूतोरधिकृतत्वात्। ननु एकदेशविकृत०% इति क्लीबेऽपि प्राप्तिरस्ति, न-निय ई नी इतीकारप्रश्लेषात् 'निनि, ग्रामणिनि कुले' इत्येव भवति, भोजेन तु भूतपूर्वन्यायेन नपुंसकेऽपि नियामित्युक्तम् ।। ५१ ॥
वाष्टन आः स्यादी॥१. ४. ५२ ॥
अष्टन्शब्दस्य तत्सम्बन्धिन्यसम्बन्धिनि वा स्यादौ परे आकारान्तादेशो20 वा भवति । अष्टाभिः, अष्टभिः; अष्टाभ्यः, अष्टभ्यः; अष्टासु, अष्टसु; प्रियाष्टाः, प्रियाष्टा; प्रियाष्टौ, प्रियाष्टानौ; प्रियाष्टाः, प्रियाष्टानः; प्रियाष्टाम्, प्रियाष्टानाम् ; प्रियाष्टौ, प्रियाष्टानौ; प्रियाष्टः, प्रियाष्ट्नः; प्रियाष्टाभिः, प्रियाष्टभिः; हे प्रियाष्टाः; हे प्रियाष्टन् ! । अन्यसम्बन्धिनोर्जश्शसोर्नेच्छन्त्येके, तन्मते-प्रियाष्टानस्तिष्ठन्ति, प्रियाष्ट्नः पश्येत्येव भवति ।25 स्यादाविति किम् ? अष्टकः संघः, अष्टता, अष्टत्वम्, अष्टपुष्पी। केचित् तु सकारभकारादावेव स्यादाविच्छन्ति ।। ५२ ।।