SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० ४३.] प्रश्लेषादिह न भवति-हे प्रियखट्व ! । आप इति किम् ? हे कीलालपाः ! । आमन्त्र्य इत्येव ? खट्वा ।। ४२ ।। न्या० स०-एदाप इति । पाश्चासावाप् चेति आकारप्रश्लेषाद् हे प्रियखट्व! इत्यत्र "गोश्चान्ते." [२. ४. ४६.] इति ह्रस्वत्वे *एकदेशविकृत०% इति न्यायात् प्राप्तोऽपि एकारादेशो न भवति ।। ४२ ॥ नित्यदिन-दिवस्वराम्बार्थस्य हरवः ॥ १. ४. ४३ ॥ नित्यं दित्-दै-दास्-दास्-दाम्लक्षण आदेशो येभ्यस्तेषां द्विस्वराम्बार्थानां चाबन्तानामामन्त्र्येऽर्थे वर्तमानानां सिना सह ह्रस्वान्तादेशो भवति । नित्यदित्-हे स्त्रि ! , हे गौरि ! , हे शाङ्गरवि ! , हे अस्त्रि !, हे लक्ष्मि !, हे तन्त्रि !, हे ब्रह्मबन्धु !, हे करभोरु !, हे श्वश्रु ! , हे वधु ! , हे कर्कन्धु !,10 हे अलाबु !, हे वर्षाभु !, हे पुनर्भु !, हे अतिलक्ष्मि !; द्विस्वराम्बार्थ-हे अम्ब !, हे अक्क !, हे अत्त !, हे अल्ल !, हे अनम्ब !, हे परमाम्ब !, हे प्रियाम्ब ! । नित्यदिदिति किम् ? हे वातप्रमीः !, है हूहूः !, हे. ग्रामणीः !, हे खलपूर्वधूटि ! । नित्यग्रहणादिह न भवति-हे श्रोः, हे ह्रीः !, हे भ्र : ! । कथं हे सुभ्र !, हे भीरु ! स्त्रीपर्यायत्वादूङि कृते15 भविष्यति । अम्बार्थानां द्विस्वरविशेषणं किम् ? हे अम्बाडे ! , हे अम्बाले !, हे अम्बिके ! । आप इत्येव ? हे मातः ! ।। ४३ ।। न्या० स०-नित्यदिदित्यादि। शृगृणाति शृङ्गरुऋषिस्तस्यापत्यं शाङ्गरवी, यद्वा शृणोतीति "शिग्रु-मेरु-नमेर्वादयः" [उ०८११.] इति निपातनाद्रौ अन्तस्य चाऽङ्गादेशे शङ्गरुः, यदा तु अनेनैव शृङ्गरुरिति निपात्यते तदाऽणि ङ्यां च शाङ्गरवी, अथवा20 शाङ्गवत् रवो यस्या गौरादित्वाद् ङ्यां शाङ्गरवी । हे अम्बेति-अबुङ अम्बतेऽच् अम्बा । हे अक्केति-"अक कुटिलायां गतौ” इत्यस्य "निष्क-तुरुष्क०" [उणा० २६.] इत्यादि-निपातनात् कप्रत्यये । अतते: “पुत-पित्त०" [उणा० २०४.] इति निपातनात् ते अत्ता। "अली भूषणादौ" अस्य "भिल्लाऽच्छ भल्ल०" [ उणा० ४६४. ] इति निपातनाल्ले अल्ला। हे हूहूः जहातेः पृषोदरादित्वाद् ऊप्रत्यये द्विर्वचनादौ। हे25 वातप्रमीः ? वातं प्रमिमीते “वातात् प्रमः कित्" [उणा० ७१३.] इति ईप्रत्ययः । हे ग्रामरणीः ? नायमीकारान्तो नित्यदित् किन्तु पुल्लिङ्गोऽपि । हे सुभ्र ! इति-"केवयुभुरण्टव०" [उरणा० ७४६.] इति निपातनात् भ्राम्यतेभ्र, शोभनं भ्र भ्रमणं यस्याः सुभ्र शब्दात् भीरुध्वनेश्च जातित्वादुङ , परस्य विकल्पेन दित्त्वात् हे सुभ्र :!, हे भीरो!,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy