________________
[ पा० ४. सू० ३४-३५.] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १०७
पञ्चाशताम् । बहुवचनं व्याप्त्यर्थम् तेन भूतपूर्वनान्ताया अपि - प्रष्टानाम्, परमाष्टानाम् ।। ३३ ॥
न्या० स० – संख्यानामित्यादि । र् च ष् च न् च तेषां ष्र्णाम्, “ तवर्गस्य ० " [१. ३. ६०. ] इति णत्वम्, “रषृवर्ण०" [२. ३. ६३.] इति तु न एकपदत्वाभावात्, "वोत्तरपदान्त०” [२. ३. ७५. ] इत्यपि न, यतः षकारो न पूर्वपदस्थ : किन्तु मध्यम - 5 पदस्थः, तर्हि रेफः पूर्वपदस्थोऽस्ति तदपेक्षया णत्वं भवतु, न - " पदेऽन्तरे० " [ २. ३. ε३. ] इति निषेधात् । ननु ष्र्णामिति शब्दनिर्देशः, संख्या चैकत्वादिरर्थः, ततः शब्दा - ऽर्थयोः सामानाधिकरण्यं न संगच्छते, सत्यम् - उपचारात् सङख्यार्थाः शब्दाः संख्याशब्देनाभिघयन्ते; यद्वा संख्यायते श्रभिरिति “उपसर्गादात: " [ ५. ३. ११०. ] इति "कररणाssधारे" [ ५. ३. १२६. ] इति परमप्यनटं बाधित्वा बहुलवचनादङि प्रपि च संख्या - 10 शब्देनैकादयः शब्दा एवोच्यन्ते इति । त्रिशतामिति - ननु च त्रिशदादयः शब्दाः संख्येयेष्वपि वर्तमानाः “विंशत्याद्याः शताद् द्वन्द्व " [ लिङ्गानुशासन०- २. ६. ] इति वचनात् एकत्वे एव वर्तन्त इत्यत्रैकवचनान्ता एव भवितुमर्हन्ति, कथं बहुवचनम् ? सत्यम् - एकशेषात् - त्रिंशच्च त्रिंशच्च त्रिंशच्च त्रिशतः । अष्टानामिति प्रथाऽष्टन् शब्दादामि परत्वाद् "वाऽऽष्टन ० " [१. ४. ५२.] इत्याकारे नान्तत्वाभावात् कथं नाम्भावोऽत प्राह - भूतपूर्वेति ।। ३३ ।। 15
त्रेस्त्रयः ॥ १. ४. ३४ ॥
ग्रामः सम्बन्धिनस्त्रिशब्दस्य त्रयादेशो भवति । त्रयाणाम्, परमत्रयाणाम् । ग्राम्सम्बन्धिविज्ञानादिह न भवति - प्रतित्रीणाम्, प्रियत्रीणाम् । अतत्सम्बन्धिनोऽपि भवतीत्येके - प्रतित्रयाणाम्, प्रियत्रयाणाम् । स्त्रियां तु परत्वात् तिसृभावो भवति - तिसृणाम् ।। ३४ ।
20
न्या० स० - स्त्रय इति । आमः सम्बन्धिन इति - सम्बन्धस्योभयनिष्ठत्वात् श्रामः सम्बन्धिन इत्यपि युक्तम्, ग्रामः सम्बन्धित्वं च त्रेरर्थद्वारकम् यस्मादामः सम्बन्धी रर्थ - स्ततः स ग्राम इत्युच्यते; ग्रामः सम्बन्धीति कार्यकारणभावे षष्ठी, त्रिशब्दः कारणम्, आम् च कार्यम्, यतस्त्रिशब्दबहुत्वे आम् ।। ३४ ।।
एदोद्भ्यां ङसिङसो रः ॥ १. ४. ३५ ॥
एदोद्भयां परयोईसिङसोः स्थाने रेफो भवति, प्रकार उच्चारणार्थः । मुनेः, मुनेः; साधोः; साधोः ; गोः, गोः; द्योः द्योः परमश्चासाविश्व
25