________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ee
भवन्ति । सर्वस्यै, सर्वस्याः, सर्वस्याः, सर्वस्याम्, परमसर्वस्यै, परमसर्वस्याः, परमसर्वस्याः, परमसर्वस्याम् अस्यै, अस्याः अस्या:, अस्याम् अत्र परत्वात् पूर्वमदादेशे पश्चाडुस् । तीयस्य विकल्पेन ङित्कार्ये सर्वादित्वाद् द्वितीयस्यै, द्वितीया । सर्वादेरिति किम् ? सर्वा नाम काचित्, सर्वायै । तत्सम्बन्धित्वविज्ञानादिह न भवति - प्रिय सर्वायै, अतिसर्वायै; दक्षिणस्याश्च पूर्वस्याश्च 5 दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिक्, तस्यै दक्षिणपूर्वायै, दक्षिणपूर्वायाः, दक्षिणपूर्वायाः, दक्षिणपूर्वायाम् एषु बहुव्रीह्यादेरन्यपदार्थादिप्रधानत्वात् सर्वादित्वाभावः । यद्येवं कथं दक्षिणपूर्वस्यै, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याम् इति ? दक्षिणा चासौ पूर्वा चेति कर्मधारये भविष्यति । अथ च बहुव्रीह्यादेः सर्वादित्वाभावे कथं 'त्वकत्पितृकः, मकत्पितृकः ; द्वकि - 10 पुत्रः, ककिंसब्रह्मचारी' इत्यादावक् प्रत्ययः ? उच्यते - अन्तरङ्गत्वात् पूर्वमेवाक् भविष्यति । श्रन्ये तु बहुव्रीहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति, तन्मते कप्प्रत्यय एव त्वत्कपितृको मत्कपितृकः ।। १८ ।।
[ पा० ४. सू० १६. ]
अथात्र
न्या० स०- सर्वादेर्डस् इत्यादि । 'अस्यै' इति इदम् - शब्दस्य 'आ द्वेर : " [२. १. ४१.] इत्यत्वे " लुगस्या०” [२. १. ११२. ] इत्यकारलोपे "प्रत्" [२. ४. १८. ] 15 इत्यापि " आपो ङिताम् ०" [१.४. १७.] इति यायाद्यादेशे " अनक्” [२. १. ३१. ] इत्यदादेशे अनेन डस्पूर्वत्वे "डित्यन्त्य० " [२. १. ११४.] इत्यकारलोपे । यायाद्यादेशे कृते सर्वादित्वेन तत्पृष्ठभावित्वात् डसि कृते व्यञ्जनादित्वाभावात् कथमदादेश इत्याह-परत्वादिति । प्रियसर्वायै इति - सर्वशब्दस्य प्राग्निपतेि प्राप्ते "प्रियः " [३. १. ११४.] इत्यनेन प्रियस्य प्राग् निपातः । अथ बहुव्रीह्यादेरिति परेण बहुव्रीह्या - 20 देरिति प्रागभिदधे तदेव अनूदितम्, अत आदेः फलं न निरीक्ष्यम् त्वकं पिताऽस्य, अहकं पिताऽस्य, द्वकौ पुत्रावस्य, कके सब्रह्मचारिणोऽस्येति । अन्ये त्विति - उत्पलादयः ।। १८ ।।
टौस्येत् ॥ १.४.१६ ॥
बन्तस्य सम्बन्धिनोष्टौसोः परयोरेकारोऽन्तादेशो भवति । खट्वया, खट्वयोः, बहुराजया, बहुराजयोः, कारीषगन्ध्यया, कारीषगन्ध्ययोः । 25 इत्येव ? कीलालपा ब्राह्मणेन । तत्सम्बन्धिविज्ञानादिह न भवति - बहुखट्वेन पुरुषेण । इह तु भवति - ईषदपरिसमाप्तया खट्वया बहुखट्वया विष्ट - रेण ॥ १६ ॥