SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते [ पा० ४. सू० ८-१०.] प्रवृत्तिनिमित्तपरित्यागात् स्वरूपमात्रोपकारी प्रवर्तत इति विशेष एवावतिष्ठते, उपसर्जनमपि जहन् स्वार्थमजहद् वाऽतिक्रान्तार्थविशेषरणतामापन्नम् 'अतिसर्वाय' इत्यादावतिक्रान्तार्थवृत्ति भवति, एवं बहुव्रीहावपि प्रियसर्वाय द्वन्यायेत्यादावन्यपदार्थसंक्रमाद् विशेषार्थवृत्ति, वाक्ये त्वसंश्लिष्टार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानमिति स्यात् सर्वादित्वम् । “उभत् पूरणे" तो "नाम्युपान्त्य० " ५. १. ५४ ] इति के उभ, तत्पूर्वाद् याते: “आतो डोला वा म:" [५. १.७६ ] इति डे निपातनात् टित्वे उभयट् । इतरेति - प्रत्ययानुकररणम् । त्व "त्रित्वरिष् संभ्रमे" अतः "क्वचित [५. ११७१ ] इति डे, त्वत्-प्रस्यैव धातो: “संश्चद् वेहत्-साक्षादादय:" [ उणा ० ८८२.] इति निपातनात् ।। ७ ।। [ 5 ६४ ] स्मिन् ॥ १.४. ८ ।। सर्वादेरकारान्तस्य संबन्धिनः सप्तम्येकवचनस्य ङे: स्थाने स्मिन्नित्ययमादेशो भवति । सर्वस्मिन् विश्वस्मिन् । प्रत इत्येव ? भवति । सर्वादेरित्येव ? सर्वो नाम कश्चित् सर्वे समे देशे धावति । तत्सम्बन्धिविज्ञानादिह न भवति - प्रिय सर्वे, प्रतिविश्व ॥ ८ ॥ जस इः ॥ १.४. ६ ।। सर्वादेरकारान्तस्य सम्बन्धिनो जस: स्थाने इकार आदेशो भवति, एकवर्णोऽपि "प्रत्ययस्य " [ ७. ४. १०८. ] इति सर्वस्य भवति । सर्वे, विश्व, उभये, ते । अत इत्येव भवन्तः सर्वाः । तत्सम्बन्धिविज्ञानादिह न भवति - प्रिय सर्वाः पुमांसः । ' सर्वारिण कुलानि ' इत्यत्र तु परत्वान्नपुंसके शिरेव ।। ६ ।। . मेमा - sर्थ- प्रथम- चरम-तया-श्या- अल्पकतिपयस्य वा ।। १.४.१० ॥ 10 15 20 नेमादीनि नामानि तयाऽयौ प्रत्ययौ, तेषामकारान्तानां सम्बन्धिनो जस: स्थाने इर्वा भवति, नेमस्य प्राप्ते, इतरेषामप्राप्ते विभाषा । नेमे, नेमा:; अर्धो, अर्धा: प्रथमे, प्रथमा:; चरमे, चरमाः; द्वितये, द्वितया:; त्रितये, 25 त्रितयाः ; द्वये, द्वयाः; त्रये, त्रयाः; उभयट्शब्दस्य त्वयट्प्रत्ययरहितस्या
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy