SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ६३ - इतर, डतर, डतम, त्व, त्वत्, नेम, सम-सिमौ सर्वाथौं, पूर्व-परा-ऽवर-दक्षिणोत्तराऽपराधराणि व्यवस्थायाम्, स्वमज्ञाति-धनाख्यायाम्, अन्तरं बहिर्योगोपसंव्यानयोरपुरि, त्यद्, तद्, यद्, अदस्, इदम्, एतद्, एक, द्वि, युष्मद्, भवतु, अस्मद्, किम्, इत्यसंज्ञायां सर्वादिः । उभयडिति टकारो झ्यर्थः, उभयी दृष्टि : ।। ७ ।। न्या० स०-सर्वादेरित्यादि । परमसर्वस्मायिति-स्याद्याक्षिास्य नाम्नः सर्वादिविशेषणाद् विशेषणेन च तदन्तविधेर्भावात् "न सर्वादि:" [१. ४. १२.] इति द्वन्द्व निषेधाद् वा *ग्रहणवता नाम्ना न तदन्तविधिः इत्यस्यानुपस्थानात् तदन्तं 'परमसर्वस्मै' इत्युदाहृतम्, केवलस्य व्यपदेशिवद्भावात् तदन्तत्वं दृश्यम् । विश्वस्मै इति-सर्वशब्दसाहचय द् विश्वशब्दस्यापि समस्तार्थस्यैव ग्रहणम्, न तु जगदर्थस्य । स्वाथिकप्रत्ययेति-10 इत्थं वदतोऽयमाशयः-स्वार्थिकप्रत्ययोऽपि गणपाठफलमिति । सिमोऽश्वाद्यर्थोऽपि । अधराणीति-शब्दरूपापेक्षया नपुसकनिर्देशो नार्थापेक्षया, तेन स्त्री-पु-नपुसकेषु सर्वेष्वप्यर्थेषु सर्वादित्वमिति । स्वाभिधेयेति-पूर्वादीनां शब्दानां स्वाभिधेयो दिग्-देश-काल-स्वभावोऽर्थः, तमपेक्षते यः स स्वाभिधेयापेक्षः, चोऽवधारणे, दिगादीनां ह्यर्थानां पूर्वादिशब्दाभिधेयानां यत् पूर्वादित्वं तद् नियमेन कञ्चिदवधिमपेक्ष्य संपद्यते, न त्ववधिनिरपेक्षन्, तथाहि-15 पूर्वस्य देशस्य यत् पूर्वत्वं तत् परं देशमवधिमपेक्ष्य भवति, परस्यापि यत् परत्वं तत् पूर्वदेशमपेक्ष्य भवति, तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्यं केनचिदवधिना भाव्यम्, तत्र तस्यैवावधेर्यः पूर्वादिशब्दाभिधेयापेक्षोऽवधिभाव एकान्तिकः स नियमो व्यवस्थापरपर्यायः, तस्मिन् गम्यमाने पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानां सर्वादिकार्यम्, न तु वाच्ये, यो हि पूर्वादिशब्दाभिधेयादर्थादन्यस्यावधिभूतस्य नियमः स कथं पूर्वादिशब्दवाच्यो?0 भविष्यति? इति, अतस्तस्मिन्नान्तरीयकतया गम्यमाने 'पूर्व, पर, अवर, दक्षिा , उत्तर, अपर, अधर' इत्येतानि सप्त शब्दरूपाणि सर्वादीनि भवन्ति । अवधिमति दिगादिलक्षणे वर्तमानानि पूर्वादोनि सर्वादोनि भवन्तीत्युदाहरति-पूर्वस्मै इत्यादि । दक्षिणायै इति-यज्ञकर्मकृतां वेतनदानं दक्षिणा। बहिर्भावनेति-धर्मे बहिष्ट्वे मिरिण च बहिर्भवे बहिः शब्दः । अन्तं रातोति “अातो डोऽह्वा-वा." [५. १. ७६.] इति ड: । पुरि वर्तते25 इति-'पुरि' इति शब्दप्रधानो निर्देशः, यदा अन्तरशब्दस्य पुर्यञ्जनान्तो वाच्यो भवति तदा सर्वादित्वस्य निषेधः, यदा अकारान्त ईकारान्तो वा पुरं पुरी द्रङ्गादयश्च वाच्या भवन्ति, तदा सर्वादित्वमस्त्येव । द्वाभ्यामिति-“सर्वादेः सर्वाः" [२. २. ११६.] इत्यत्र मतद्वयाभिप्रायेण प्रथमा-द्वितीयावर्जनात् तृतीयां प्रारभ्यात्रोदाहरणानि दर्शितानि । स्वमते 'द्वौ हेतू' इत्यादि भवत्येव । सर्वविभक्त्यादय इति-पादिशब्दाद् यथायोगमेकशेष-30 पूर्वनिपात-प्रवद्भाव डद्रि-यात्-पायनिञ्-मयट-अक: प्रयोजनानि ज्ञायन्त इति । अत्र सर्वमादोयते गृह्यतेऽभिधेयत्वेन येनेत्यन्वर्थाश्रयणात् सर्वेषां यानि नामानि तानि सर्वादीनि, संज्ञोपसर्जने च विशेषेऽवतिष् ते, तथाहि-यदा सर्वशब्दः संज्ञात्वेन नियुज्यते तदा प्रसिद्ध
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy