________________
८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ५१-५३.]
विसर्गस्यापि "अपञ्चमान्तस्थो०" [ १. १. ११. ] इति धुट्त्वे "प्रवर्ण-ह-विसर्ग-कवाः कण्ठ्याः " इति कत्वं स्यात्, श्च्योततीत्यादिप्रयोगत्रये यथासंख्यं च-ट-ताः स्युरिति ; 'अस्थि (स्ति) आस्ते' इत्यादिषु च सस्य तकारः स्यात् ॥ ५० ॥
10
विरामे वा ॥ १. ३. ५१ ॥
विरामे वर्तमानस्याशिटो धुटः स्थाने प्रथमो वा भवति । वाक्, वाग्; 5 षट्, षड्; तत्, तद् ; ककुप्, ककुब् । विराम इति किम् ? वागत्र । धुट इत्येव ? क्रुङ्, सुगण, भवान्, त्वम् ॥ ५१ ।।
न्या० स०–विरामे वेति-वैषयिकमिदमधिकरणम् । क्रुङ इत्यादि-चवर्गजो अकार: “पद-रुज-विश-स्पृशो घञ्" [ ५. ३. १६. ] इत्यादौ दृश्यः, 'क्रुङ' इत्यादिचतुष्टये क-ट-त-पाः स्युः, घञ् इत्यत्र चः स्यादिति ।। ५१ ॥
न सन्धिः ॥ १. ३. ५२॥
उक्तो वक्ष्यमाणश्च विरामे सन्धिर्न भवति । दधि अत्र, ते पाहुः, तत् . लुनाति, भवान् लुनाति, कुर्वन् शेते, वृक्षस्य छाया, ब्राह्मणस्य छत्रम्, भवान् छादयति, न न पाहि, कुण्डम् हसति, वृक्ष याति, कुर्वन् प्रास्ते । विरामादन्यत्र तु संहितायां सन्धिरेव, सा च
15 “संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते" ।। ५२ ॥ न्या० स०–न सन्धिरिति । संहितायामिति-सन्धीयन्ते वर्णा अस्यामिति "शी-री-भू." [ उरणा० २०१.] इति किति ते संहिता-वर्णानां परस्परं संनिकर्षः । एकपद इति-विषयस' मी, ते भवन्तीत्यादौ एकपदे नित्यं संहिता । धातूपसर्गयोरिति-20 धातूपसर्गयोः प्रेलयतीत्यादौ नित्यसमुदितत्वात् समासस्यापि निरन्तरानेकपदात्मकत्वा, पद-धातूपसर्ग-समासानां नियमेनैकप्रयत्नोच्चार्यत्वाच्च विरामाभावान्नित्यं संहितेति, वाक्ये तु सर्वत्रै कप्रयत्नोच्चार्यत्वस्यानियमाद् विरामाभावेन संहितेति ॥ ५२ ॥
र पदान्ते विसर्गस्तयोः॥ १. ३. ५३ ।। पदान्ते वर्तमानस्य रेफस्य स्थाने विसर्ग आदेशो भवति, तयोविरामे-25
15