________________
[पा० ३. सू० ४६-५०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ८१
अवत्तम्, प्रवत्त्तम् ; अत्र त्रयस्तकारा, मध्यमस्य वा लोपः; शिण्डि, शिण्ड्ढि ; पिण्ढि, पिण्ड्ढि ; भिन्थः, भिन्त्थः । धुट इति किम् ? शार्ङ्गम्, भाङ्गम् । धुटीति किम् ? सक्थ्ना, सक्थ्ने । स्व इति किम् ? तप्र्ता, दर्ता । व्यञ्जनादित्येव ? बोद्धा, योद्धा ॥ ४८ ।।
न्या० स०-धुट इत्यादि। प्रत्तमिति-प्रपूर्वाद् ददातेरारम्भेऽर्थे क्त "प्राद् 5 दागस्त्त०” [ ४. ४. २. ] इति तादेशः; [अवत्तम्] अवदीयते स्म क्तः, “नि-वि-स्वन्ववात्" [ ४. ४. ८. ] इति तः । शिण्डि, पिण्ढोति शिष्-पिषोः पञ्चम्यां हो “रुधां स्वरा" [ ३. ४. ८२. ] इति श्नप्रत्यये "श्नास्त्योर्लुक्" [४. २. ६०. ] इति अलोपे "हु-धुट:०" [ ४. २. ८२. ] इति हेधिभावें "तृतीयस्तृतीय०" [ १. ३. ४६. ] इति तृतीयत्वे “तवर्गस्य" [ १. ३. ६०.] इति ढत्वे "म्नां धुट०" [ ४. ३. ३६. ] इति10 णत्वेऽनेन पक्षे डलोपे चेति । भाङ्गमिति भृगो "भृवृभ्यां नोऽन्तश्च" [ उणा० ६४. ] इति किति गे नागमे च भृङ्गः, तस्येदमित्यणि ॥ ४८ ॥
तृतीयस्तृतीय-चतुर्थे ॥ १. ३. ४६ ॥
धुट: स्थाने तृतीये चतुर्थे च परे स्थानिप्रत्यासन्नस्तृतीयो भवति । मज्जति, भृज्जति, दोग्धा, दोग्धुम्, पिण्ड्ढि, शिण्ड्ढि, योद्धा, योद्धम्, लब्धा,15 लब्धुम्, तृतीय-चतुर्थे इति किम् ? लिख्यते । धुट इत्येव ? वल्भते । पदान्ते "धुटस्तृतीयः" [२. १. ७६.] इति, अपदान्तार्थं वचनम् ।। ४६ ।।
न्या० स०---तृतीय इत्यादि। "लिख्यते' इत्यत्र खस्य गः, 'वल्भते' इत्यत्र लस्य द आसन्नः प्राप्नोति ।। ४६ ।।
अघोरे प्रथमोऽशिटः ॥ १. ३. ५० ॥
शिवजितस्य धूट: स्थानेऽघोषे परे प्रथमो भवति । वाक्पूता, देवच्छत्रम्, षट् कुर्वन्ति, दृषत्कल्पः, ककुप्सु, भेत्ता, लप्स्यते । अघोष इति किम् ? भज्यते, भिद्यते । धुट इत्येव ? भवान् खनति, कण्ठः, कन्था । अशिट इति किम् ? श्च्योतति, कष्टीकते, पयस्सु ।। ५० ॥
न्या० स०--अघोष इत्यादि । ननु 'पयस्सु' इत्यत्र “श-ष-से श-ष-सं वा"25 [ १. ३. ६. ] इति विधानादपि न प्राप्नोति, किमशिट इति वच्नेन ? सत्यम् एच्योततीत्याद्यर्थम्, तथाऽशिट इत्यभावे 'वृक्षः पुरुषः' इत्यादौ कस्यादिः कादिरिति व्याख्यया
20