________________
[ पा० ३. सू० २६-३०. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७१
सि:, ततो ह्रस्वस्य गुण: " [ १४.४१ ] इति सिना सह गुणे अनेन विकल्पेन छस्य द्वित्वमिति । "स्वरेभ्यः " [ १.३. ३० ] इति नित्यं द्वित्वे प्राप्ते विकल्पार्थोऽयमारम्भ इति । प्राङो ङित ईषदर्थादिषु चतुर्ष्वर्थेषु वर्तमानस्य प्रतिवधः, मास्तु प्रतिषेधवचनस्य इति क्रमेणोदाहरति — आच्छायेति - ईषदर्थे । आच्छिनत्तीति क्रियायोगे, छदिरत्र हठाद् ग्रहणे विद्यते स चाङा विशिष्यते । आ च्छायाया इति - अत्राङ मर्यादायाम्, छायां 5 परिहृत्येत्यर्थः, अभिविधौ तु छायामभिव्याप्येत्यर्थः । वाक्य- स्मरणयोरिति - वाक्यं पूर्ववाक्यार्थविपरीतकरणरूपम्, स्मरणं विस्मृतार्थपरिज्ञानम् । प्रमाछन्द इति - प्रमीयत इति “उपसर्गादात:" [ ५. १. ११०. ] इत्यङ, प्रमा चासौ छन्दश्च प्रमाछन्दः ।। २८ ।।
प्लुताद् वा ॥ १. ३. २६ ॥
पदान्ते वर्तमानाद् दीर्घस्थानात् प्लुतात् परस्य छकारस्य द्व े रूपे वा10 भवतः । प्रागच्छ भो इन्द्रभूते ३ च्छत्रमानय, आगच्छ भो इन्द्रभूते ३ छत्रमानय । दीर्घादित्येव ? आगच्छ भो देवदत्त३ च्छत्रमानय ।। २६ ।।
न्या० स० – प्लुतादित्यादि । दीर्घादित्यनुवृत्तावपि द्विमात्रत्रिमात्रयों विरोधात् सामानाधिकरण्यासम्भवेऽपि 'मञ्चाः क्रोशन्ति' इत्यादिवत् स्थानोपचारात् तद्व्यपदेशाद् विशेषण - विशेष्यभावः, दीर्घोऽस्यास्ति स्थानित्वेनेत्यभ्रादित्वाद् प्रति वा दीर्घशब्देन प्लुतो - 15 Sभिधीयते इत्यत श्राह - दीर्घस्थानादिति । ननु किमर्थमिदम् ? यतो दीर्घत्वमाश्रित्य "अनाङ - माङो०" [ १.३.२८. ] इत्यनेनैव द्वित्वं वा भविष्यति, सत्यम् - इदमेव ज्ञापकम् - दीर्घापदिष्टं न प्लुतस्य इति, ह्रस्वकार्यं च न, यथा— आगच्छ भो देवदत्त ३, प्लुतात् प्रथमं सेर्लु' क् " अदेत : ० " [ १.४.४४ ] इत्यनेन, अन्यथा प्रथमं न कुर्यात्, यदि पश्चादपि स्यात् ।। २६ ।।
20
स्वरेभ्यः ॥ १. ३. ३० ॥
बहुवचनं व्याप्त्यर्थम्, तेन 'पदान्ते' इति निवृत्तम्, स्वरात् परस्य छकारस्य पदान्तेऽपदान्ते च द्व े रूपे भवतः । इच्छति [ ऋच्छति ], गच्छति, हीच्छति, म्लेच्छति, चाच्छायते, चोच्छुप्यते, वृक्षच्छाया । स्वरेभ्य इति किम् ? वाक्छत्रम् ।। ३० ।।
न्या० स० -- स्वरेभ्य इति । पदान्त इति निवृत्तमिति - " गच्छति पथि दूते" [६. ३. २०३. ] इत्यत्र गच्छतीति निर्देशाच्च ॥ ३० ॥
25