________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० २४-२५.]
न्या० स०-व्योरिति । 'वृक्षव्' इत्यत्र क्विपि सत्यूट स्यादिति विचि सिद्धमित्युक्तम् । न च “स्वरस्य०" [७. ४. ११०.] इति णिलुकः स्थानित्वम्, “न सन्धि०" [ ७.४.१११. ] इत्यपस्थानात: तहि "य्वोः " [४. ४. १२१. ] इति कथं वस्य लुक न? सत्यम्-तदा स्थानित्वात् । अव्यवयतीति विच क्विप् वा, विचि तावद् यस्य न लुक् "स्वरस्य०" [ ७. ४. ११०.] इति णिचः स्थानित्वात्, क्विपि तु यद्यपि णिच: 5 स्थानिवत्त्वं न भवति “न सन्धि०" [ ७. ४. १११. [ इति निषेधात्, तथापि न यस्य लुक् "इसास०" [ ४. ४. ११८. ] इत्यनेन व्यञ्जनद्वारा सिद्धे "क्वौ” [४. ४..१०६. ] सूत्रं क्विपि क्वचित् व्यञ्जनकार्यमनित्यम् * इति ज्ञापनार्थम्, ततो यलुग् नं भवतीति, यद्वा लगिति संज्ञा संज्ञापूर्वको विधिरनित्यः इति। ननु वक्षव करोतीत्यत्र पदान्तत्व नास्ति णिलोपस्य स्थानिवत्त्वात्, ततो व्यङ्गविकलत्वं व्यावृत्तेरिति, नैवम्-"न सन्धि०"10 [७. ४. १११. ] इत्यनेन सन्धिविधौ स्थानित्वाभाव इति । कश्चित् त्विति-विश्रान्तविद्याधरः ।। २३ ॥
स्व रे वा ॥ १. ३. २४॥
अवर्ण-भो-भगो-ऽघोभ्यः परयोः पदान्ते वर्तमानयोर्वकार-यकारयोः स्वरे परे लुग् वा भवति, स चासन्धिः । पट इह, पटविह, अवर्णादीत्स्पृष्टतरस्य15 विकल्पेन विधास्यमानत्वात् त्रैरूप्यम्-पटविह; वृक्ष अत्र, वृक्षवत्र, वृक्षवत्र; वृक्षा इह, वृक्षाविह, वृक्षाविह; त पाहुः, तयाहुः, तयाँहुः; तस्मा इदम्, तस्मायिदम्, तस्मायिँदम् ; क आस्ते, क यास्ते, कयॉस्ते; देवा पाहुः, देवायाहुः, देवायाँहुः; भो अत्र, भोप्रभृतिभ्य उत्तरेणेषत्स्पृष्टतरस्य नित्यं विधानाद् द्वै रूप्यम्-भो अत्र, भोपॅत्र; भगो अत्र, भगो यँत्र; अघो अत्र, अघो यँत्र; 20 उञ्यपि द्वै रूप्यमेव-पट उ, पटवू इत्यादि । पदान्त इत्येव ? लवनम्, नयनम् । अवर्णादिभ्य इत्येव ? मध्वत्र, दध्यत्र । स्वर इति किम् ? वृक्षव् करोति ।। २४ ॥
न्या० स०-स्वरे वेति । 'कयास्ते, तयाहुः' इत्यादिषु स्यादिविधौ “सो रुः" [२. १. ७२. ] इति रोरसत्त्वात् प्रसिद्धं बहिरङ्गम् ०* इति न्यायाच्च "अत आ:25 स्यादौ०" [ १. ४. १. ] इति न दीर्घः ।। २४ ॥
अस्पष्टाववर्णत्वात् त्वनुनि वा ॥ १. ३. २५ ॥
अवर्ण-भो-भगो-ऽघोभ्यः परयोः पदान्ते वर्तमानयोर्वकार-यकारयोः स्थानेऽस्पष्टावीषत्स्पृष्टतरौ प्रत्यासत्तेर्वकारयकारावेवादेशौ स्वरे परे भवतः,