________________
३८ आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ४४६४। अभ्यर्णे शेते। अविदूरादन्यत्र अभ्यर्दितश्चौरः पीडित इत्यर्थः, अत एव याचनस्थाने यातनेत्येके पठन्ति, अर्दितः खेदित इत्यर्थः । ऋथ अर्दिए हिंसायाम् "युजादेर्नवा" ३।४।१८॥ इति वा णिचि अर्दयति अर्दते॥
३०२ नई ३०३ पर्द ३०४ गर्द शन्दे । नर्दति । नोपदेशत्वाद् णत्वाभावे प्रनर्दति ॥ 5 गर्द । “पाठे-" २।३।९७। इति नत्वे नर्दति । णोपदेशत्वाद् णत्वे प्रणर्दति । ग्रहादित्वाद् णिनि न
नईतीति अनर्दी । “कर्तुर्णिन्" ५।१।१५३। सिंह इव विनर्दति सिंहविनर्दी ॥ गर्द । गर्दति । जगर्द । ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इत्यः, नर्दा गर्दा । उणादौ "कृ-श-" (उ० ३२९) इति अभे गर्दभः ॥
३०५ तर्द हिंसायाम् । तदति । ततर्द । णके वितर्दिका वेदिः । ते सेट्त्वाद् अः, तर्दा ॥ 10 ३०६ कर्द कुत्सिते शब्दे । कर्दति । चकर्द । ते सेट्त्वात् कर्दा । उणादौ "सृ-प-प्रथि-"
(उ० ३४७) इति अमे कर्दमः ॥ __३०७ खर्द दशने। दशनमिह दन्दशूककर्तृकं दन्तकर्म स्वभावाच्च धातुः साधनप्रधानप्रयोगसमवायी । खर्दति । चखर्द । अचि पनि च खर्दः । क्ते सेट्त्वात् खर्दा। .
पूर्वे तु खर्द दन्दशके इति पठन्ति, व्याचक्षते च-दन्दशनशीलो दन्दशूक उच्यते, अनेन च 15 तद्विषया क्रिया लक्ष्यते, क्रियार्थत्वाद् धातोः । दन्दशन इति यु(ल्यु)डन्तनिर्देशेऽपि तद्विषया क्रिया प्रतीयते। किन्तु साधननिर्देशः साधनप्रधानप्रयोगसमवायित्वज्ञापनार्थ इति ॥
३०८ अदु बन्धने । उदित्त्वाद् ने अन्दति । “अनातो-" ४।१।६९। इति आत्वे ने च १ सर्वास्वपि प्रतिषु 'भ्यणे सेने । अवि इति पाठो दृश्यते ॥२ "३१० खर्द दंदशूके”-शाकटायन धातुपाठ।
"खर्द दन्दशके। दन्दको दंशनशीलः स्वभावभूतगर्हितदंशनक्रियाकर्ता। अनेन तत्समवेता स्वभावभूतगर्हितक्रिया लक्ष्यते धातोः क्रियावचनत्वात् । एवम् अन्यत्रापि न्यनिर्देशे किया लक्ष्यते। दंदशन इत्येतन्नोक्तम् , ताच्छील्यार्थस्य संग्रहो न स्यात्"-मैत्रेयरक्षितरचितधातुप्रदीप पृ० १४-धातु अंक ५९ ।
"खर्द दन्दशूके। दन्दशक इति दन्दशककर्तृका किया अभिधीयते। साधनप्रधानप्ररोगित्वस्थापनार्थ दन्दशूक ग्रहणम्-इति संमता-तरङ्गिण्यौ । दन्दको गर्हितो दंशनशीलः, इह तु तत्स्था क्रिया, दंश इत्यनुक्तिः ताच्छील्यादिप्रतिपत्त्यर्था इति मैत्रेये प्रतिपादितम् । दन्तशूक इति केशवस्वामी दकारस्य स्थाने तकारमाह"-. इत्यादि । माधवीया धातुवृत्ति पृ० ९१ धातुअंक ६० ।
"खर्द दन्दशके। दंशहिंसादिरूपायां दन्दशकक्रियायाम्-इत्यर्थः"-सिद्धांतकौमुदी ७-४-७ सूत्र धातु अंक २४ ।
३ यङन्त तपा० ॥ ४ "अति अदि बन्धने । अत्र धनपाल:-तान्तं द्रविडाः पठन्ति। आयर्यास्तु दान्तम्-इति । उभयमिति मैत्रेय-स्वामि-काश्यप-सम्मताकारादयः"-माधवीया धातुवृत्ति. पृ. ९३ धातुअंक ६२ । “अत्यादयः (अति-अदि-इदि-बिदि-गडि-) पञ्चैते न तिविषयाः इति काश्यपः माधवीया धातुवृत्ति पृ. ९४ धातुअंक-६५।