________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ६२ कक्ख हसने । कक्खति । "क्तेटो-" ५।३।१०६। इत्यप्रत्यये कक्खा। उणादौ "दिव्यवि-" (उ० १४२) इत्यटे कक्खटः । द्वितीयादिमेतं केचिन्मन्यन्ते, खक्खति । खक्खा ॥
६३ उरा ६४ नख ६५ णख ६६ वख ६७ मख ६८ रख ६९ लख ७० मखु ७१ रखु ७२ लखु ७३ रिखु ७४ इख ७५ इखु ७६ ईखु ७७ वल्ग ७८ रगु ७९ लगु 5 ८० तगु ८१ श्रगु ८२ श्लगु ८३ अगु ८४ वगु ८५ मगु ८६ स्वगु ८७ इगु ८८ उगु
८९ रिगु ९० लिगु गतौ । ओखति । "उपसर्गस्यानिणेधेदोति" १।२।१९। इत्युपसर्गावर्णलोपे पोखति । "नाम्युपान्त्य-" ५।१।५४। इति के उखा ॥ नख । नखति । प्रनखति, नोपदेशत्वात् “अदुरुपसर्गा-” २।३।७७॥ इति न णत्वम् । अचि नखः ।। णख । नखति । प्रणखति,
णोपदेशत्वाद णत्वम् ॥ वख । वखति ॥ मख । मखति । बाहुलकात् “व्यञ्जनाद्-" 10 ५।३।१३२। घजपवादे "पुन्नाम्नि घः" ५।३।१३०। इति घे मखः ॥ रख । रखति ॥
लख । लखति ॥ मखु । मङ्खति । उदित्त्वाद् नेऽन्तेऽचि मङ्खो बन्दी॥ रखु । रङ्गति ।। लखु । लङ्घति ॥ रिखु । रिङ्गति। रिङ्गणः, रिडणं स्खलनम् ॥ इख । एखति ।।
इखु । इङ्गति, प्रेङ्खति । प्रेङ्खा ॥ ईखु । ईडति ॥ ____ अथ गान्ता अष्टादश सेटो वल्गवर्जा उदितश्च15 वल्ग। वल्गति । "व्यञ्जनात्-" ५।३।१३२। घनि वल्गो वल्गेत्यर्थः ॥ रगु। रङ्गति । उदित्त्वाद् नागमे "व्यञ्जनात्-" । ५/३।१३२॥ पनि रङ्गति-सङ्गच्छते जनोऽस्मिमिति रङ्गः ॥
लगु । लङ्गति । “लङ्गि-कम्प्योः -" ४।२।४७। इति नलोपे विलगितः पशुः । घञि लङ्गः, खञ्जनेऽयं रूढः ॥ तगु। तङ्गति। तगुः स्खलने रूढः॥ श्रगु। श्रङ्गति ।। श्लगु। श्लङ्गति ॥ अंगु। अङ्गति । अचि अङ्गम् । उणादौ "अग्यङ्गि-" (उ० ४०५) इत्यारे अङ्गारः . 20 "मस्यांस--" (उ० ६९९) इत्युरौ अङ्गुरिः, लत्वे अङ्गुलिः ॥ वगु। वङ्गति । अचि वङ्गः ।
वगुर्गतिवैकल्ये रूढः॥ मगु । मङ्गति । मङ्गः । उणादौ “मङ्गेर्नलुक् च" (उ० २५३) इत्यधे मगधाः । "मृदि-कन्दि-" (उ० ४६५) इत्यले मङ्गलम् । “हृषि-वृति-" (उ० ४८५) इत्युले मङ्गुलम् । स्वगु । खगति ॥ इगु। इङ्गति । क्ते इङ्गितम् । अनटि प्रेङ्गण, "नाम्यादेरेव
ने” २।३।८६। इति णत्वम् ॥ उगु । उङ्गति ॥ रिगु। रिङ्गति ॥ लिगु। लिङ्गति, 25 आलिङ्गति । “व्यञ्जनात्-" ५।३।१३२। घनि णावचि वा लिङ्गम् । लिगुण चित्रीकरणे लिङ्गयति ॥ वखमुदितमप्येके पठन्ति, वङ्क्षति ॥
९१ त्वगु कम्पने च । चकाराद् गतौ । स्थितस्यैव चलनं कम्पनम् । गतिर्देशान्तरप्राप्तिहेतुः क्रिया। त्वङ्गति । अचि त्वङ्गः॥
९२ युगु ९३ जुगु ९४ वुगु वर्जने । युगति । जुङ्गति । वुङ्गति ॥