________________
१४
आचार्यश्रीहेमचन्द्रविरचितं
[भुवादिगणे इति खे रथात् स्थैर्वा तरति रथन्तरो राजा, रथन्तरं साम । “भिदादयः" ५।३।१०८। इति निपातनादङि तारा ज्योतिः । “अवात् तृ-स्तृभ्याम्" ५।३।१३३। घनि अवतरन्त्यनेनास्मिन् वा अवतारः। “युवर्ण-'" ५।३।१८। इत्यलि अवतरणमवतरः। उणादौ “पति-तमि-" (उ० ९८) इत्यने तरङ्गः।
"तृ-क-कृषि-" (उ० १५१) इति कीटे तिरीटं मुकुटम् । “ज-कृ-तृ--" (उ० १७३) इत्यण्डे तरण्डः । 5 "यम्यजि-" (उ० २८८) इत्युने तरुणः तलुनः । “नी-नू-रमि-" (उ० २२७) इति किति थे ती
र्थम् । “ऋ-ह-सू-" (उ० ६३८) इत्यणौ तरणिः । “वृ-कृ--" (उ० ५४०) इति षे तर्षः प्लवः । "मा-वा-वद्यमि-" (उ० ५६४) इति से तों वीतंसः, बाहुलकात् न षत्वम् । “स्वरेभ्य इ:" (उ० ६०६) तरिः, तरी नौः । “तृ-स्स-तन्द्रि-" (उ० ७११) इति ईप्रत्यये तरीनौः । “भृ-मृ-तृ--'" (उ०
७१६) इत्युः तरुः । "ऋ-त-शृ-' (उ० ७२७) इति णित्युप्रत्यये लत्वे च तालु। तीरमिति तु 10 तीरण कर्मसमाप्तौ इत्यस्य ॥
२८ ट्धे पाने। टकारः शुनिन्धयीत्यादौ ड्यर्थः । धयति । अशित्यात्वे दधौ। णिगि “अर्ति- . री-ब्ली-"४।२।२१। इति पौ धापयति । फलवत्कर्तर्यात्मनेपदस्य प्राप्तस्य “चल्याहारा-"३।३।१०८१ इत्यपवादे परस्मैपदे प्राप्ते “परिमुहा-"३।३।९४। इति पुनरात्मनेपदम् , धापयते शिशु माता । क्ये
दासज्ञात्वाद् "ईर्व्यञ्जनेऽयपि" ४।३।९७। इतीत्वे धीयते । “धे-श्वेर्वा" ३।४।५९। इति के अधत्, 1b पक्षे अधात् अधासीत् , अत्र "धे-घ्रा-"४।३।६७। इति सिचो वा लुप् । अनुस्वारेत्त्वात् नेट्, धाता।
"घा-मा-" ५।१।५८। इति शे धयः, उद्धयः, निधयः। ये तु सोपसर्गादेव शमिच्छन्ति तन्मते "तन्-व्यधी-"५।१।६४। इति णे धायः। “शुनी-स्तन--" ५।१।११९। इति खशि शुनिन्धयः, शुनिन्धयी। क्तयोः धीतः धीतवान् , धावर्जनाद् "दत्" ४।४।१०। इति दत् न भवति । “दा-घे-सि-"
५।२।३६। इति रौ धयतीत्येवंशीलो धारुर्गाः । “तृन्नुदन्ता-" २।२।९०। इति निषेधाद् न षष्ठी। 20 "धात्री" ५।२।९१। इति निपातनात् कर्मणि टि धयन्ति तामिति धात्री। उणादौ "धेः शित्" (उ० ७८७) इति नौ धेनुः ॥
इतः परमैन्दता अनुस्वारेतश्चैकविंशतिः
२९ दैव् शोधने । वकारो "अवौ दा-धौ दा" ३।३।५। इति दासज्ञानिषेधार्थः । दायति । क्ये निदायन्ते भाजनानि, अवदातं मुखम् , अदासीत् , दिदासति, एषु दासज्ञाऽभावाद् ईत्वं तः सिज्लु25 बिदादेशश्च न भवति । अनुस्वारेत्त्वाद् नेट्, दाता । यङि दादायते । यङ्लुपि दादाति दादेति दादीतः,
अत्र “एषामी-"४।२।९७। इत्यत्र दासज्ञस्यैव वर्जनात् ईत्वं भवति । दाम् दाने यच्छति । दें 3ङ् पालने दयते । दांवक् लवने दाति । डुदांगक् दाने ददाति । दो छोच् छेदने द्यति॥
१ "इतोऽक्त्यर्थात्" २।४।३२॥ इति ब्यां रूपम् ।। २ 'सञ्जत्वा' खे० संपा१ वा० ॥ ३ “ईय॑जनेऽयरि"४।३१९७। इति ईत्वं "स्वरादुपसर्गादस्तिकित्यधः" ४।४।९। इति तः "पिवैति-दा-भू-स्थ:-" 30 ४।३१६६। इति सिचो लुप् “मि-मी-मा-दामित् स्वरस्य" ४।१।२०। इति इदादेशश्च ॥