________________
॥ ॐ एँ नमः ॥ ॥ आचार्यपुङ्गवश्रीमद्विजयभद्रसूरीश्वरपादपनेभ्यो नमो नमः॥ कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितं
धातुपारायणम्।
॥ अहम् ॥ श्रीसिद्धहेमचन्द्रव्याकरणनिवेशितान् स्वकृतधातून् ।
आचार्यहेमचन्द्रो, विवृणोत्यहं नमस्कृत्य ॥ 'इह तावत् पद-पदार्थज्ञानद्वारोत्पन्नं हेयोपादेयज्ञानं निःश्रेयसहेतुः' इति प्रसिद्धम् । ‘पद-पदार्थज्ञानं च नय-निक्षेपादिभिरधिगमोपायैः परमार्थतः, व्यवहारतस्तु प्रकृत्यादिभिः' इति पूर्वाचार्यप्रसिद्धा । एव सुखग्रहण-स्मरणकार्यसंसिद्धये विशिष्टानुबन्धसम्बन्धक्रमाः सहार्थेन प्रकृतयः प्रस्तूयन्ते। तत्र यद्यपि। नाम-धातु-पदभेदात् 'राजा, जयति, पूर्वाहेतरां, पचतितराम्' इत्यादौ त्रेधा प्रकृतिः, तथापि नामपदयोर्धातुमूलत्वाद् धातुप्रकृतिरेवैका प्रधानम् । अव्युत्पत्तिपक्षवादिनामपि व्युत्पत्तिपक्षानुसारेणैव शब्दस्वरूपनिर्णय इति तत्रापि धातुमूलत्वमेव । धातुप्रकृतिस्तु द्वेधा-शुद्धा प्रत्ययान्ता च । शुद्धा भू इत्यादिः। प्रत्ययान्ता गोपाय कामि ऋतीय जुगुप्स कण्डूय बोभूय बोभू चोरि भावि बुभूष 10 इत्यादिः । एषाऽपि शुद्धमूलैवेति शुद्धैवोदाहियते ॥ . १. भू सत्तायाम् । भू इत्यविभक्तिको निर्देशः सान्त-रान्तशङ्कानिरासार्थः, एवं सर्वत्र । भू इत्येषा प्रकृतिः सत्तायां वर्तते । अभूत् भूत इत्यादौ प्रयोगित्वदर्शनाद् ऊकारस्य "अप्रयोगीत्" १११॥ ३७। इति इत्सञ्ज्ञा न भवति, एवमन्यत्रापि । वर्णसमानायक्रमेण स्वरान्त-व्यञ्जनान्तधातूपदेशप्रतिज्ञानात् पा पाने इत्यादेः प्रथमं निर्देशे प्राप्ते वृद्धसमयानुवर्तनार्थ प्रथममस्य पाठः । यद् वृद्धाः-16
"भूवादयो धातवः” (पा० १।३।११) इति; मङ्गलार्थ च, यदाह"माङ्गलिकत्वात् प्रथममस्य प्रयोगः” इति ।