________________
३५४ ] धातुपारायणे चुरादयः (९)
[३४७
अथ लान्ताः पश्च ॥ '३४६ कलण संख्यानगत्योः' । कलयति । उ अचकलत् । कलि शब्दसंख्यानयोः [११८१४ ], कलते । णिगि कालयति । कलण क्षेपे [९।३४६ ], कालयति गाः ॥
'३४७ शीलण उपधारणे' । उपधारणम् अभ्यासः परिचयो वा, शीलयति । डे अशिशीलत् । अलि शीलम् । शील समाधौ [११४२१ ], शीलति । णिगि डे 'अशीशि (शिशी) लत् ॥
'३४८ वेल ३४९ कालण उपदेशे' । वेलयति । उ अविवेलत् । अचि वेला । वेल चलने [११४४३ ], वेलति ॥ - '३४९ कालण' । कालयति । डे अचकालत् । कालोपदेश इत्यर्थनिर्देश इत्येके ।
'३५० पल्यूलण लवनपवनयोः' । पल्यूलयति क्षेत्रं सबुसधान्यं वा । के अपपल्यूलत् । पल्यूल इत्येके । वल्यूल इत्यन्ये । पप्पूल इत्यपरे ॥
अथ शान्तः ॥ ___ '३५१ अंशण समाघाते' । समाधानो विभाजनम् । अंशयति रिक्थम् । अलि अंशः । चन्द्रो दन्त्यान्तमाह, व्यसयति, मयूरव्यंसकः ॥
अथ षान्तास्त्रयः ॥ '३५२ पषण अनुपसर्गः' । पष इत्ययं धातुरनुपसर्गोऽदन्तो णिचमुत्पादयति पषयति अपपषत् । गत्यर्थोऽयमित्येके । अनुपसर्ग इति किम् ? प्रपषति । पपी बाधनस्पर्शनयोः [ ११९२६ ], पषते, पपति । पषण बन्धने [ ९।१८७ ] पापयति । तालव्यान्तोऽयमित्येके, केचित्तु इमं तालव्यान्तमधीत्य ब्याचक्षते पश इति धातुः अर्थानिर्देशात् भ्वादिश्चुरादिश्चानुपसर्गः चुरादिग्दन्तः, पशयति । अनुपसर्ग इति किम् ? प्रपशति । तालव्यान्त एव वाऽदन्त इत्यन्ये, पशयति, पाशयति ॥
'३५३ गवेषण मार्गणे' । गवेषयति । डे अजगवेषन् । अनटि गवेषणम् ॥
'३५४ मृषण क्षान्तौ' । शान्तिः तितिक्षा । मृषयति, डे अममृषत् । अनटि मृषणम् । मृषीच तितिक्षायाम् [ ३३१४१ ], मृष्यते, मृष्यति, मृषिण तितिक्षायाम् [९।४०९], “ युजादेः०" ३।४।१८ इति वा णिचि मर्षयति, मर्षति ।। १. अत्र तु समान लोपत्वाद् हूस्वो न भवति । दृश्यताम् ३३९ तमे पृष्ठे १५ तमपंक्तिततः॥ २. तुलना:-क्षो. त पृ. ३१२ ॥