________________
२२० ] धातुपारायणे चुरादयः (९)
'२१० लुजु' । लुमयति । अन्यत्र लुमति ॥ *२११ भजु । भक्षयति । अन्यत्र भोंप आमदने [ ६।१४ ], भनक्ति ॥
अथ टान्ताः पञ्च ॥ '२१२ पट'। पाटयति । अन्यत्र पट गतौ [१।१९५], पटति । पटण् ग्रन्ये [९।२९४ ], अदन्तः, पटयति ॥
'२१३ पुट' । पोटयति । अन्यत्रं पुटन संश्लेषणे [५।१२७], पुटति ॥
'२१४ लुट'। लोटयति । अन्यत्र लुटि प्रतीघाते [ ११९४१], लोटते । लुटच विलोटने [ ३।३४], लुट्यति ॥
'२१५ घट'। घाटयति । अन्यत्र घटिष चेष्टायाम् [१११०००], घटते। णिगि “घटादेः०" ४।२।२४ इति हुस्वे घटयति । घटण संघाते [९।१६९] इति पठितोऽपि सकर्मकार्थम् अर्थविशेषार्थं च पुनरिहायमधीतः ॥ _ '२१६ घटु'। उदित्त्वान्ने घण्टयति । अचि घण्टा । अन्यत्र घण्टति ॥
.. इस रुटनटौ टान्तौ लडुतडौ च डान्तौ केचिदधीयते । रुट रोटयति । अन्यत्र रुटि प्रतीपाते [११९४० ], रोटते । नट नाटयति । अन्यत्र गट नृतौ [१।१८७], नटति । भ्वादौ आत्मनेपदीति नन्दी, नटते । लड्डु, उदिचान्ने लण्डयति । अन्यत्र लण्डति । तड ताडयति, अन्यत्र तडति ॥
अथ तान्तः ॥ * २१७ वृत' । वर्तयति । अन्यत्र वृतूङ् वर्तने [ ११९५५ ], वर्तते ॥ .
अथ थान्तः ॥ २१८ पुथ' । पोथयति । अन्यत्र पुथच् हिंसायाम् [३।११ ], पुथ्यति ।।
अथ दान्तः ॥ २१९ नद' नादयति । अन्यत्र गद अव्यक्ते शब्दे [१।२९९], नदति ।।
अथ धान्तः ॥ ' २२० वृध' । वर्धयति । अन्यत्र वृधूङ् वृद्धौ [ ११९५७ ], वर्धते ॥