________________
१२२ ] धातुपारायणे दियादयः (३)
[२३१ आगः । “ यजिशुन्धि०" ( उ० ८०१) इति युः मन्युः । “ अस्” (उ० ९५२) इति असि मनः । “रुद्यति० " ( उ० ९९७ ) इति उसि मनु: प्रजापतिः । मांसम् इति तु मानेः " मावावदि० " ( उ० ५६४ ) इति से । मठर इत्यपि मठतेः ' ऋच्छिचटि० " ( उ० ३९७ ) इति अरे । मनूयि बोधने [ ८९ ], मनुते । मनिण् स्तम्भे [ ९।२४३], मानयते, अलि मानः ।।
• १२१ अनिच् प्राणने' । अन्यते । “ अस्यादे०" ४११६८ इति पूर्वस्य आत्वे आने । अनिता, अनितः । णान्तोऽयमित्येके, अण्यते, आणे । अन श्वसक् [२॥३१, ३२ ], प्राणने, अनिति, “ द्वित्वेऽप्यन्तेप्य ०" २।३।८१ इति णत्वे प्राणिति ॥
'१२२ जनैचि प्रादुर्भावे' । प्रादुर्भाव: उत्पत्तिः । “जा ज्ञा०" ४।२।१०४ इति जाऽऽदाशे, जायते । “गमहन०" ४।४।८३ इति अल्लुकि जज्ञे । “दीपजन०" ३।४।६७ इति अद्यतन्याः कर्तृविहिते ते वा जिचि “न जन" ४।३।५३ इति वृद्धयभावे अजनि, पक्षे सिचि अजनिष्ट । णौ “कगेवनू०" ४।२।२५ इति हस्वे जनयति । "ये नवा" ४।२।६२ इति इति किङति वा आत्वे जायते, जन्यते, जाजायते, जमन्यते । जनिता । जो "ईगितः" ३३९५ इति फलवकर्तरि आत्मनेपदाऽपवादे "चल्याहारार्थे०" ३।३।१०८ इति परस्मैपदे जनयति धर्मम् । करणे पनि अभिजनः गोत्रम् । ऐदिचात् क्तयोर्नेट , “गत्यर्थाकर्मक०" ५।१।११ इति वा कर्तरि ते "आः खनि०" ४।२।६० इति आत्वे जातः, जातवान् , पक्षे भावे क्ते जातं चैत्रेण । साप्यादपि “श्लिषशीङ" ५।१९ इति क्ते अनुजातो माणवकः माणविकाम् , पक्षे कर्मणि क्ते अनुजाता माणविका माणवकेन । " भव्यगेय." ५।११७ इति निपादनाद् वा कर्तरि ध्यणि जन्यः चैत्रः, पक्षे भावे जन्यं चैत्रेण । अचि जन: । " वन्याङ् पञ्चमस्य" ४।२।६५ विजावा । "अनोजनेर्डः" ५।११६८ स्यनुजः । “ सप्तम्याः०" ५।१।१६९ मन्दुरे जातः मन्दुरजः । “ अजातेः पञ्चम्याः" ५।११७० मुण्डजं भयम् । " क्वचित् " ५।१।१७१ इति डे 'अनुजः, प्रजाः, पूर्वजः । “भ्राज्यलं." ५।२।२८ इति इष्णौ प्रजनिष्णुः । क्तौ जातिः । अनटि जायते अस्यामपत्यमिति जननी । उणादौ ।
१. अनूजः इति मु०॥