________________
अथ अदादयः (२) '१ अदं २ प्सांक भक्षणे'। इहाविकरणेषु वर्णक्रमेण धातुषु पठितेषु पूर्वाचार्यप्रसिद्धयनुसरणेनाऽदेरादावुपन्यासः । किकरणमदादिज्ञापनार्थ सर्वत्र ज्ञेयम् । " शेषात्परस्मै" ३।३।१०० इति परस्मैपदे " कर्तर्यनय:०" ३४७१ इत्यदादि वर्जनाच्छवभावे च अत्ति । शतरि अदन् , “ऋदुदितः" ११४७० इति घुटि नकारः । अदती । “क्रियाव्यतिहारे०" ३३।२३ इत्यात्मनेपदे व्यत्यत्ते । "घस्ल सन०" ४।४।१७ इति घस्लादेशे जिघत्सति । लूदित्वादडि अघसत् । "परोक्षायां नवा" ४।४।१८ जघास, जक्षतुः, जक्षुः, अत्र “गमहन०" ४।२।४४ इत्युपान्त्यलुकि, “ अघोषे० " १।३।५० इति घस्य कत्वे, “नाम्यन्तस्था०" २।३।१५ इति पत्यम् । थवि " स्क्रसृवृ० " ४१४८१ इति इटि जघसिथ । पक्षे आद, आदतुः, आदुः । थवि “सृजिदृशि० " ४।४।७८ इति विकल्पापवादे "ऋवृव्येऽद०" ४।४।८० इति इटि आदिथ । “अदश्चाट् " ४।४।९० इति दिस्योगदिग्ट् , आदत् , आदः । अनुस्वारेवान्नेट् , अत्ता, अत्स्यति । णौ "गतिबोधा०" २।२।५ इत्यत्र अदेवर्जनादणिकर्तुः कर्मत्वाभावे, आदयते पिण्डी चत्रेण । अत्र "चल्याहारार्थे० " ३।३।१०८ इति फलवकर्तर्यपि परस्मैपदापवादः, " परिमुहायमा०" ३३९४ इति आत्मनेपदम् । “यपि चादो०" ४४।१६ इति जग्धादेशे क्त्वि जग्धा प्रजग्ध्य गतः । क्तौ जग्धिः । “ अद्यर्थाच्चा०" ५।१।१२ इति वाऽऽधारे ते इदमेषां जग्धम् । पक्षे कर्मणि क्त जग्धमन्नम् । भावे जग्धमनेन । अन्नमिति तु “अदोऽनन्नात् " ५।१।१५० इति निर्देशादने " प्याधा० " ( उ० २५८ ) इति ने रूपम् । अचि प्रघसः । “अदोऽनन्नात् " ५।१११५० इति क्विपि आमात् । कर्मणोऽणि अन्नादः । “क्रव्यात्क्रव्यादावामपक्वादो" ५।१।१५१ क्रव्यात् आममांसादी, क्रव्यादः पवमांसादी । “सृघस्यदो०" ५।२।७३ इति मरकि अदनशीलः अमरः । “भूश्रयदोऽल्" ५।३।२३ विघसः । उपसर्गाभावे पनि घासः । “न्यादो नवा" ५।३।२४ न्यादः निघसः, नन्द्यादित्वादने काकादनः । गौगदित्वाद् ड्याम् काकादनी । तत्रैव पाठात् गवादनः । उणादौ " तङ्किवयः " ( उ० ६९२ ) इति रिः, अद्रिः । “ राशदि०" (उ० ६९६) इति त्रि: अन्त्रिः । “अदेखिन्" (उ० ९२९) अत्री ऋषिः, अत्रिणौ ।