________________
રૂર
आचार्यश्रीहेमचन्द्रविरचिते [धा० ९४८
'९४८ क्षुभि संचलने' । संचलनं रूपान्यथात्वम् । क्षोभते, चुक्षुमे । द्युतायङि अक्षुभत् , अक्षोभिष्ट । "क्षुब्धविरिन्ध० " ४।४।७० इति निपातनाद् इडभावे क्षुब्धो मन्थः, क्षुभितोऽन्यः । शुभच संचलने [३५६ ] क्षुभ्यति । शुभश् संचलने [ ८।४६ ] क्षुम्नाति, क्षुम्नादित्वाद् णत्वाभावः ॥
९४९ णमि ९५० तुभि हिंसायाम्' । “पाठे." २।३।९७ इति नत्वे नभते । णोपदेशत्वात् “अदुरुपसर्गा० " २१३७७ इति णत्वे प्रणभते । नेमे । द्युताद्यङि अनभत् , अनभिष्ट । उणादौ " अस्" ( उ० ९५२) इत्यसि नभः । अणोपदेशोऽयमित्येके ॥
'९५० तुभि' । तोभते, तुतुभे । द्युताद्यङि अतुभत् , अतोभिष्ट । नभतुभच् हिंसायाम् [ ३।५७, ५८] नभ्यति, प्रणम्यति, तुभ्यति । णभ-तुभश् हिंसायाम् [८१४७, ४८ ] नम्नाति प्रणम्नाति तुम्नाति ॥
९५१ सम्भृङ् विश्वासे' । दन्त्यादिः । सम्भते, सस्रम्भे । द्युताद्यति अस्रभत् , असम्भिष्ट । ऊदिचात् क्त्वि वेट् , सध्वा सम्भित्वा । “ क्त्वा" ४।३।२९ इति सेट: कित्त्वाभावात “नो व्यञ्जनस्या०" ४।२।४५ इति नलोपाभावः । वेट्त्वात् क्तयोर्नेट् , विस्रब्धः, विस्रब्धवान् । " वेर्विच० " ५।२५९ इति चिनणि विसम्भशीलो विस्रम्भी । घनि विस्रम्भः । हान्तोऽयमिति कौशिकः, संहते ॥
___ अथ शान्तः ॥ '९५२ भ्रंशुङ ९५३ स्रसूङ अवलंसने' । " शिड़हे.” १।३।४० इति नस्यानुस्वारे भ्रंशते, बभ्रंशे । द्युताद्यङि अभ्रशत् अभ्रंशिष्ट । ऊदित्वात् क्त्वि वेट् , भ्रष्टा, भ्रंशित्वा । वेट्त्वात् क्तयोर्नेट् , भ्रष्टः । संज्ञायां " कुत्सिता." ७३३३३ इति कपि भ्रष्टकः, भ्रष्टवान् । यडि " वञ्चसंस०" ४१५० इति पूर्वस्यान्तो नी बनीभ्रश्यते । क्ते अनिट्त्वात् “क्तेटो०" ५।३।१०६ इत्यप्रत्ययाभावे स्त्रियां क्तौ भ्रष्टिः । घनि भ्रंशः । भ्रंशूच अधःपतने [ ३।६२ ] भ्रश्यति ॥
अथ सान्तौ ॥ • ९५३ उमङ' । दन्त्यादिः । स्रंसते. ससंसे । यताद्यडि अनुसत् असंसिष्ट । सनि सिस्रंसिपते । यङि सनीस्रस्यते । यङ्लुपि सनीस्रंसीति ।
१. सिम्रषिते इति मु० ॥