________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूषादिगणे नियमस्तन्मते सोपसर्गस्यार्थान्तरेऽप्यात्मनेपदं न विरुध्यते । अणोपदेशश्वायम् । यदाह--"सर्वे नादयो णोपदेशा नृति-नन्दि-नर्दि-नक्कि नाटि-न-ना-नाथूवर्जम्" इति, तेन “अदुरुपसर्गा-" २।३।७७। इति णत्वाभावे प्रनाथते । अचि नाथः । “इ-डितो-'" ५।२।१४। इत्यने नाथनः ॥
७१७ श्रथुङ शैथिल्ये । तालव्यादिः । शैथिल्यम् अगाढता। उदित्वाद ने श्रन्थते । श्रन्थ्यते। 5 श्रन्थिता । शश्रन्थे, अत्र “वा श्रन्थ-ग्रन्थो नलुक् च"४।१।२७। इत्यत्रौपदेशिकस्य श्रन्थो ग्रहणाद् वा
एत्व-नलुको न भवतः; अन्ये त्वत्रापीच्छन्ति । “दशनाऽवोदधौद्म-" ४।२।५४। इति पनि निपातनात् प्रश्रथः हिमश्रथः । “णि-वेत्ति-" ५।३।१११। इति अने श्रन्थना । उणादौ "श्रन्थेः शिथ् च" (उ० ४१४) इति इरे शिथिरम्, लत्वे शिथिलम् ॥
__७१८ ग्रथुङ कौटिल्ये । कौटिल्यं कुसृतिर्बन्धश्च । उदित्त्वाद ने ग्रन्थते । जग्रन्थे । ग्रन्थिता। 10 "णि-वेत्ति-" ५।३।१११। इति अने ग्रन्थनेत्येके। श्रन्थश् मोचन-प्रतिहर्षयोः, ग्रन्थश्
सन्दर्भ, श्रथ्नाति अथ्यते, अध्नाति प्रथ्यते। “वा श्रन्थ-ग्रन्थो नलुक् च” ४।१।२७। इति वा एत्वे नलुकि च श्रेयतुः शश्रन्थतुः, प्रेथतुः जग्रन्थतुः । श्रन्थ ग्रन्थण सन्दर्भ, "युजादेर्नवा" ३।४।१८। इति वा णिचि श्रन्थयति श्रन्धति । ग्रन्थयति ग्रन्थति । श्रेषतुः शश्रन्थतुः, प्रेथतुः जन
न्यतुः । “एकधातौ-" ३।४।८६। इत्यात्मनेपदे "भूषार्थ-" ३।४।९३। इति नि-क्ययोरभावे च 15 कर्मकर्तरि त्रयाणामपि श्रन्थते श्रथ्नीते अश्रन्थिष्ट वा स्वयमेव, एवं ग्रन्थते अध्नीते अग्रन्धिष्ट । उणादौ “पदि-पठि-" (उ० ६०७) इति इः, श्रन्थिन्थिश्च पर्वसन्ध्यादिः ॥
७१९ कत्थि श्लाघायाम् । श्लाघा गुणारोपः । कत्थते । चकत्थे । कत्थित्वा । "इ-डितो-" ५।२।४४। इति अने कत्थनः । “वेर्विच-'" ५।२१५९। इति घिनणि विकत्थी। "न णिङ्-य-"
५।२।४५। इत्यत्र दीपिग्रहणेन ताच्छीलिकेष्वप्युत्सर्गसमावेशस्य ज्ञापनादने विकत्थनः ॥ 20 अथ दान्ता एकविंशतिहदिवर्जा सेटश्च
७२० विदुङ् श्वैत्ये । श्वैत्यं श्वेतगुणक्रिया । उदित्त्वाद् ने श्विन्दते; कोऽर्थः ? यदि सकर्मकस्तदा श्वेतीकरोतीति, अथाकर्मकस्तदा श्वेतीभवतीति; श्वेतगुणः सिद्धोऽप्याख्यातेन साध्यैकरूप उच्यते, कृतानुसाध्योऽपि सिद्धतया पाकादिवत् शब्दशक्तिस्वाभाव्यात् । क्ये श्विन्धते । ते श्विन्दितः।।
७२१ वदुङ् स्तुत्यभिवादनयोः । स्तुतिगुणैः प्रशंसा। अभिवादनं पादयोः प्रणिपातः। उदि26 त्वाद् ने वन्दते, देवान् स्तौतीत्यर्थः । ववन्दे गुरून् , अभिवादितवानित्यर्थः । वन्दिता ।अचि वन्दी हठाकृष्टा स्त्री। ग्रहादित्वाद् णिनि वन्दी मङ्खः । “श-वन्देरारुः" ५।२।३५/ वन्दनशीलो वन्दारुः
१ आचार्यहेमचन्द्रस्तु-"नृति-नन्दि-नर्वि-नशि-नाटि-नकि-नाम-ना-नवर्जम्" इत्येवं (२।३।९७ सूत्रवृत्तौ) उल्लिखन् अत्र नव धातून गणयति । अत्र विषये विविधमतानि जिज्ञासुना मा. धा० पृ. ३७ धातुअंक ६-७ विवरणं विज्ञेयम् ।