________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे अथ णान्ताः पद सेटश्च
७०५ घिणुङ् ७०६ घुणुङ् ७०७ पृणुङ्ग्रहणे । उदित्त्वाद् ने पिण्णते जिघिण्णे। घिण्णिता ॥ घुण्णते। जुघुष्णे । घुण्णिता ॥ घृण्णते । जघृष्णे । घृणिता । यङि जरीघृण्ण्यते। वनि "वन्याङ् पञ्चमस्य” ४।२।६५। इत्यत्र पञ्चमस्येति जातिपरिग्रहाद् णद्वयस्याप्याङादेशे आङो ङित्वाद् गुणाभावाद् यत्वे सुध्यावा; व्यक्तिपरिग्रहे त्वन्त्यस्यैव आत्वे सुधिनावा । एवं शेषयोरपि । किपि "पदस्य" २।१।८९। इति संयोगान्तलोपे सुधिन्नित्यादि ॥
७०८ धुणि ७०९ घूर्णि भ्रमणे । घोणते जुघुणे घोणिता । लिहायचि घोणा। "नाम्युपान्त्य" ५।११५४। इति के घुणः । वनि "वन्याङ् पञ्चमस्य" ४।२।६५। इति आङादेशे ङित्त्वाद्गुणाभावे वावा॥
घृणि । घूर्णते। जुघूर्णे । घूर्णिता । वनि आङेि घूरावा । घुण घूर्णत् भ्रमणे घुणति । घूर्णति ॥ ७१० पणि व्यवहार-स्तुत्योः । “गुपौ-धूप-" ३।४।१। इति आये पणायति । आयान्तस्येङित्त्वाभावात् “शेषात्परस्मै" ३।३।१००। इति परस्मैपदम् । “विनिमेय-द्यूतपणम्-'' २।२।१६। इति कर्मणो वा कर्मत्वे "शेषे” २।२।८१। इति षष्ठयाम् शतस्य पणायति । स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद् ग्रहणात् पणिरेवायम् ।'ये तु स्तुत्यर्थादेव पणेरायमिच्छन्ति तन्मते व्यवहारार्थात् शवि अपि आया. भावे शतस्य पणते । “अशवि ते वा” ३।४।४। इति वा आये पणायाञ्चकार पेणे, पणायिता पणिता । " न चोपलेभे वणिजां पणायाः " [भट्टिकाव्ये स० ३ श्लो० २७]अत्र "शंसिप्रत्ययात्"५।३।१०५। इति अः । “वर्योपसर्या-" ५।१।३२। इति निपातनाद ये पण्यं विक्रेयम् ; अन्यत्र व्यणि पाण्यः साधुः । “पणेर्माने" ५।३।३२। इति घञपवादे अलि शाकपणः । “गोचर-सञ्चर-'" ५।३।१३१। इत्याधारे च घञपवादे घे एत्य तत्र पणायन्तीति आपणः । उणादौ "आङः पणि-'' (उ० ३९)
१ जयादित्यप्रभृतयः इति. लघुन्यासकारः ३॥४॥ सूत्रन्यासे । तथा च ३।१।२८। सूत्रे काशि. कायाम्-'स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययमुत्पादयति न व्यवहारार्थः' इति । 'पणेः स्तुतावेव आयप्रत्ययः' इति च मिताक्षरा-माधव. धा. पृ. ८९ धातुअं० ४३५ । तरङ्गिणीकारोऽपि मिताक्षरामनुसरति ।। २ भट्टिकाव्ये "न चोपलेमे वणिजां पणाऽऽयान्" इति पाठो लभ्यते। भट्टिकाव्यटीकाकारः श्रीजयमङ्गलसूरिः "पणाऽऽयान्' पदं व्याचक्षाणः पणानाम् अया:-लाभाः-तान् पणाऽऽयान्-व्यवहारलाभान् इत्येवं निरूपयति। ततस्तन्मते 'पणाऽऽयान्' पदे नास्ति "गुपौ-धूप-" ३४.१। इति सूत्रेण विहितः आय-प्रत्ययः । अतः माधवीयधातुवृत्तौ (पृ. ८९ धातुअंक ४३५) प्रस्तुतपद्यगतं 'पणाऽऽयान्' पदम् आय-प्रत्ययान्तं मन्यमानेन श्रीतरङ्गिणीकारेण या भट्रिकवेः भ्रान्तता निरूपिता सा निराधारा । अथ च टीकाकारः श्रीजयमङ्गलः 'पणायाम्' इतिरूपं अन्य पाठं निर्दिशति स्तुतिरूपं च तदर्थ निबध्नाति ततोऽपि तरङ्गिणीकारस्य आक्षेपः विफलः । यदि 'पणायाम्' पदस्य केनापि व्यवहाररूपः अर्थः निर्दिष्टो भवेत् तदा स्तुत्यर्थादेव आयप्रत्ययं मन्वानस्य मते 'पणा याम्' पदम् अपपदं भवेत् । न चात्र तथा । 'वणिजां प्रलापान' इति तृतीयोऽपि पाठः श्रीजयमालेन निरदेशि । हेमचन्द्रस्तु 'पणाया' इति आयप्रययान्तमखण्डं पदं मन्यते तस्य च द्वितीयाबहुवचनमेतत् 'पणायाः' इति ।