________________
७६
आचार्यश्रीहेमचन्द्रविरचित
[भूवादिगणे वर्जनात् "स्वरात्"२।३।८५। इति णत्वे प्रपवणम् , प्रपवणीयम् । उणादौ "दम्यमि-" (उ० २००) इति ते पोतः । “पू मुदिभ्यां कित्" (उ० ९३) इति गे पूगः । “य्वसि-रसि-" (उ० २६९) इति अने पवनः । “शिक्या-ऽऽस्या-ऽऽढ्य-" (उ० ३६४) इति निपातनात् पुण्यम् । “पुत्रादयः" (उ० ४५५) इति त्रे ह्रस्वे च पुत्रः । “स्वरेभ्य इ:" (उ० ६०६) पविः । “हु-पूग्-गोन्नी-" 6 (उ० ८६३) इति तृः, पोता पोतारौ । पूग्श् पवने पुनीते पुनाति ॥
६०१ मूङ् बन्धने । मवते । मुमुवे । मविता । मवितुम् । “ग्रह-गुहश्च-" ४।४।५९। इति सनि नेट् , मुमूषते । णौ सनि “ओर्जान्तस्था-" ४।१६०। इति पूर्वस्योत इत्वे मिमावयिषति । उणादौ "विचि-पुषि-" (उ० २२) इति किति के मूकः। "शी-री-" (उ० २०१) इति किति
ते मूतः पुटबन्धः । जीवनस्य मूतो जीमूतः पृषोदरादिः । “शुक-शी-" (उ० ४६३) इति किति ले 10 मूलम् । “स्नु-पू-सू-" (उ० ५४२) इति किति षे मूषा ॥
६०२ धृङ् अवध्वंसने। धरते । दधे । णिगि मैत्राय शतं धारयति, अत्र "रुचि-क्लप्यर्थ-" २।२।५५। इत्युत्तमर्णाच्चतुर्थी । यङि देध्रीयते । यङ्लुपि दरीधर्ति दरिधर्ति दर्धर्ति । “साहि-साति" ५।१।५९। इत्यजपवादे शे धारयः । “धारेर्धर्च"५।१।११३। इति खे वसुन्धरा, जलन्धरः, युगन्धरः।
"धारीडो-" ५।२।२५। इत्यतृशि धारयन्नाचाराङ्गम् , अत्र "तॄन्नुदन्ता--" २।२।९०। इति कर्मणि 15 न षष्ठी। क्विपि क्षेमधृत् । “न्याया-ऽवाया-" ५।३।१३४। इति निपातनात् करणाशरे घापवादे पनि
आधारः। भिदादिनिपातनादङि धारो प्रपातः, धृतिरन्या। उणादौ "अतीरि-" (उ० ३३८) इति मे धर्मः । "ऋ-ह-सू-" (उ०६३८) इति अणौ धरणिः । धृग् धारणे धरति, धरते । धृत् स्थाने ध्रियते । चुरादेराकृतिगणत्वात् धारयति । उभयपदिषु पठिष्यमाणस्याप्यस्य अवध्वंसने धरतीति प्रयो
गनिवृत्त्यर्थ इह पाठः ॥ 20 अतः परौ एदन्तौ द्वावनिटौ च
६०३ मेंङ् प्रतिदाने । प्रतिदानं प्रत्यर्पणम् । मयते । प्रणिमयते, अत्र “ने-दा-" २।३७९। इति नेर्णत्वम् । “ईर्व्यञ्जने-" ४।३।९७। इतीत्वे मीयते । ममे । अनुस्वारेत्त्वाद् नेट् , माता मातुम् । "मि-मी-मा-दा-" ४।१।२०। इति स्वरस्येद्भावे द्वित्वाभावे च सनि मित्सते । “आतो डोऽद्धा-"
५।११७६। इत्यत्र मावर्जनादणि द्रोणमायः । यङि मेमीयते । यङ्लुपि मामाति मामेति। "दो-सो25 मा-स्थ इ." ४।४।११। मितः मितवान् । “निमील्यादि-" ५।४।४६। इति परकालार्थादपि वा क्त्वि
१ जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः, अत्र "पृषोदरादयः" ३।२।१५५। इत्यनेम वनशब्दस्य लोपः।। २ अविध्वंसने इति सं सं२ वा. तपा०॥ ३ एतन्नामा तीर्थकरः ॥ ४ आचारम्, अ° संपा सं१ सं२ तपा० प्र. वा० । आचारप्रतिपादकमजमाचाराङ्गम् । आचर्यते शोभनं कमनिन व्यसभाद् घम, आचा रश्च तद चेति वा ॥ ५ खड्गादेर्वा । "धारा प्रपातन इति भिदादिपाठादङि गुणो दीर्घत्वं च। द्रवद्रष्यनिपातनं धारा इति न्यासे खड्गधारादावुपमानात् प्रयोग:-" इति माधषवृत्तिः पृ. १६३ धा. ८८४ ॥ ६ अविध्यसने इति सं. सं२ वा. तपा-॥ ७"स्वभावात् मेङ् व्यतिहार एव वर्तते। कोऽर्थः ? अपरे धातवो